Loading...
ऋग्वेद मण्डल - 10 के सूक्त 147 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 147/ मन्त्र 4
    ऋषिः - सुवेदाः शैरीषिः देवता - इन्द्र: छन्दः - पादनिचृज्ज्गती स्वरः - निषादः

    स इन्नु रा॒यः सुभृ॑तस्य चाकन॒न्मदं॒ यो अ॑स्य॒ रंह्यं॒ चिके॑तति । त्वावृ॑धो मघवन्दा॒श्व॑ध्वरो म॒क्षू स वाजं॑ भरते॒ धना॒ नृभि॑: ॥

    स्वर सहित पद पाठ

    सः । इत् । नु । रा॒यः । सुऽभृ॑तस्य । चा॒क॒न॒त् । मद॑म् । यः । अ॒स्य॒ । रंह्य॑म् । चिके॑तति । त्वाऽवृ॑धः । म॒घ॒ऽव॒न् । दा॒शुऽअ॑ध्वरः । म॒क्षु । सः । वाज॑म् । भ॒र॒ते॒ । धना॑ । नृऽभिः॑ ॥


    स्वर रहित मन्त्र

    स इन्नु रायः सुभृतस्य चाकनन्मदं यो अस्य रंह्यं चिकेतति । त्वावृधो मघवन्दाश्वध्वरो मक्षू स वाजं भरते धना नृभि: ॥

    स्वर रहित पद पाठ

    सः । इत् । नु । रायः । सुऽभृतस्य । चाकनत् । मदम् । यः । अस्य । रंह्यम् । चिकेतति । त्वाऽवृधः । मघऽवन् । दाशुऽअध्वरः । मक्षु । सः । वाजम् । भरते । धना । नृऽभिः ॥ १०.१४७.४

    ऋग्वेद - मण्डल » 10; सूक्त » 147; मन्त्र » 4
    अष्टक » 8; अध्याय » 8; वर्ग » 5; मन्त्र » 4

    पदार्थः -
    (सः-इत्-नु) स एव खलु शीघ्रं (सुभृतस्य रायः-मदम्) सुष्ठभृतं पुष्टं रायं हर्षमानन्दधनम् “द्वितीयार्थे षष्ठी व्यत्ययेन छान्दसी” (चाकनत्) कामयते-लभते (यः-अस्य रंह्यं चिकेतति) यः खलु ह्यस्य तव परमात्मनो रंह्यं गमयितुं प्रापयितुं योग्यं स्वरूपं जानाति “रंह्यः-गमयितुं योग्यः” [ऋ० २।१८।१ दयानन्दः] (मघवन्) हे ऐश्वर्यवन् परमात्मन् ! (त्वावृधः) त्वया यो वर्धितः-‘त्वया-उपपदात्-वृधुधातोरौणादिकः कः प्रत्ययो बाहुलकात्’ (दाश्वध्वरः) दातव्योऽहिंसायज्ञो यस्य सः “दाश्वध्वराय दाशुर्देयोऽध्वरोऽहिंसामयो यज्ञो येन तस्मै” [ऋ० ६।६८।३ दयानन्दः] दत्ताहिंसायज्ञो दयावान् जनो भवति (सः-नृभिः-मक्षु वाजं धना भरते) स्वकर्मनेतृभिः साधनैः शीघ्रममृतान्नभोगम् “अमृतोऽन्नं वै वाजः” [जै० २।१९३] धनानि लौकिकानि च धारयति प्राप्नोति ॥४॥

    इस भाष्य को एडिट करें
    Top