ऋग्वेद - मण्डल 10/ सूक्त 151/ मन्त्र 2
ऋषिः - श्रद्धा कामायनी
देवता - श्रद्धा
छन्दः - विराडनुष्टुप्
स्वरः - गान्धारः
प्रि॒यं श्र॑द्धे॒ दद॑तः प्रि॒यं श्र॑द्धे॒ दिदा॑सतः । प्रि॒यं भो॒जेषु॒ यज्व॑स्वि॒दं म॑ उदि॒तं कृ॑धि ॥
स्वर सहित पद पाठप्रि॒यम् । श्र॒द्धे॒ । दद॑तः । प्रि॒यम् । श्र॒द्धे॒ । दिदा॑सतः । प्रि॒यम् । भो॒जेषु॑ । यज्व॑सु । इ॒दम् । मे॒ । उ॒दि॒तम् । कृ॒धि॒ ॥
स्वर रहित मन्त्र
प्रियं श्रद्धे ददतः प्रियं श्रद्धे दिदासतः । प्रियं भोजेषु यज्वस्विदं म उदितं कृधि ॥
स्वर रहित पद पाठप्रियम् । श्रद्धे । ददतः । प्रियम् । श्रद्धे । दिदासतः । प्रियम् । भोजेषु । यज्वसु । इदम् । मे । उदितम् । कृधि ॥ १०.१५१.२
ऋग्वेद - मण्डल » 10; सूक्त » 151; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 9; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 9; मन्त्र » 2
पदार्थः -
(श्रद्धे मे-इदम्-उदितम्) हे श्रद्धे सत्-आस्थे ममेदं घोषितवचनम् (ददतः प्रियं कृधि) दानं प्रयच्छतो जनस्य प्रियं कल्याणं कुरु (श्रद्धे दिदासतः प्रियम्) हे सदास्थे ! दातुमिच्छतः प्रियं कल्याणं कुरु (भोजेषु यज्वसु) दानस्य भोक्तृषु दक्षिणां गृहीतवत्सु खल्वृत्विक्षु प्रियं कल्याणं कुरु ॥२॥