ऋग्वेद - मण्डल 10/ सूक्त 151/ मन्त्र 3
ऋषिः - श्रद्धा कामायनी
देवता - श्रद्धा
छन्दः - निचृदनुष्टुप्
स्वरः - गान्धारः
यथा॑ दे॒वा असु॑रेषु श्र॒द्धामु॒ग्रेषु॑ चक्रि॒रे । ए॒वं भो॒जेषु॒ यज्व॑स्व॒स्माक॑मुदि॒तं कृ॑धि ॥
स्वर सहित पद पाठयथा॑ । दे॒वाः । असु॑रेषु । श्र॒द्धाम् । उ॒ग्रेषु॑ । च॒क्रि॒रे । ए॒वम् । भो॒जेषु॑ । यज्व॑ऽसु । अ॒स्माक॑म् । उ॒दि॒तम् । कृ॒धि॒ ॥
स्वर रहित मन्त्र
यथा देवा असुरेषु श्रद्धामुग्रेषु चक्रिरे । एवं भोजेषु यज्वस्वस्माकमुदितं कृधि ॥
स्वर रहित पद पाठयथा । देवाः । असुरेषु । श्रद्धाम् । उग्रेषु । चक्रिरे । एवम् । भोजेषु । यज्वऽसु । अस्माकम् । उदितम् । कृधि ॥ १०.१५१.३
ऋग्वेद - मण्डल » 10; सूक्त » 151; मन्त्र » 3
अष्टक » 8; अध्याय » 8; वर्ग » 9; मन्त्र » 3
अष्टक » 8; अध्याय » 8; वर्ग » 9; मन्त्र » 3
पदार्थः -
(यथा-उग्रेषु-असुरेषु) यथा क्रूरेषु-अस्तव्यस्तेषु दुष्टजनेषु तेषामुपरि (देवाः श्रद्धां चक्रिरे) मुमुक्षवो विद्वांसो यथोचितधारणां दैवीं शक्तिं प्रेरयन्ति (एवं भोजेषु यज्वसु अस्माकम्-उदितम् कृधि) एवं भोजनदातृषु तथा यजमानेषु खल्वस्माकमिदमाशीर्वचनं कल्याणप्रदं कुरु ॥३॥