साइडबार
ऋग्वेद - मण्डल 10/ सूक्त 168/ मन्त्र 2
सं प्रेर॑ते॒ अनु॒ वात॑स्य वि॒ष्ठा ऐनं॑ गच्छन्ति॒ सम॑नं॒ न योषा॑: । ताभि॑: स॒युक्स॒रथं॑ दे॒व ई॑यते॒ऽस्य विश्व॑स्य॒ भुव॑नस्य॒ राजा॑ ॥
स्वर सहित पद पाठसम् । प्र । ई॒र॒ते॒ । अनु॑ । वात॑स्य । वि॒ऽस्थाः । आ । ए॒न॒म् । ग॒च्छ॒न्ति॒ । सम॑नम् । न । योषाः॑ । ताभिः॑ । स॒ऽयुक् । स॒ऽरथ॑म् । दे॒वः । ई॒य॒ते॒ । अ॒स्य । विश्व॑स्य । भुव॑नस्य । राजा॑ ॥
स्वर रहित मन्त्र
सं प्रेरते अनु वातस्य विष्ठा ऐनं गच्छन्ति समनं न योषा: । ताभि: सयुक्सरथं देव ईयतेऽस्य विश्वस्य भुवनस्य राजा ॥
स्वर रहित पद पाठसम् । प्र । ईरते । अनु । वातस्य । विऽस्थाः । आ । एनम् । गच्छन्ति । समनम् । न । योषाः । ताभिः । सऽयुक् । सऽरथम् । देवः । ईयते । अस्य । विश्वस्य । भुवनस्य । राजा ॥ १०.१६८.२
ऋग्वेद - मण्डल » 10; सूक्त » 168; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 26; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 26; मन्त्र » 2
पदार्थः -
(विष्ठाः-वातस्य-अनुसम्प्रेरते) पृथिव्यां प्रविश्य स्थिताः-ओषधि-वनस्पतयो वातस्यानुकूलं कम्पन्ते (एनं योषाः-न समनम्-आगच्छन्ति) एतं स्त्रियः इव समानमनोभावस्थानं प्राप्नुवन्ति तद्वत् (अस्य-विश्वस्य भुवनस्य देवः-राजा) अस्य सर्वस्य पृथिवीलोकस्य राजा भूत्वा (ताभिः सयुक् सरथम्-ईयते) ताभिः प्रजाभिः सह समानाश्वः समानरथो गच्छति ॥२॥