साइडबार
ऋग्वेद - मण्डल 10/ सूक्त 168/ मन्त्र 3
अ॒न्तरि॑क्षे प॒थिभि॒रीय॑मानो॒ न नि वि॑शते कत॒मच्च॒नाह॑: । अ॒पां सखा॑ प्रथम॒जा ऋ॒तावा॒ क्व॑ स्विज्जा॒तः कुत॒ आ ब॑भूव ॥
स्वर सहित पद पाठअ॒न्तरि॑क्षे । प॒थिऽभिः । ईय॑मानः । न । नि । वि॒श॒ते॒ । क॒त॒मत् । च॒न । अह॒रिति॑ । अ॒पाम् । सखा॑ । प्र॒थ॒म॒ऽजाः । ऋ॒तऽवा॑ । क्व॑ । स्वि॒त् । जा॒तः । कुतः॑ । आ । ब॒भू॒व॒ ॥
स्वर रहित मन्त्र
अन्तरिक्षे पथिभिरीयमानो न नि विशते कतमच्चनाह: । अपां सखा प्रथमजा ऋतावा क्व स्विज्जातः कुत आ बभूव ॥
स्वर रहित पद पाठअन्तरिक्षे । पथिऽभिः । ईयमानः । न । नि । विशते । कतमत् । चन । अहरिति । अपाम् । सखा । प्रथमऽजाः । ऋतऽवा । क्व । स्वित् । जातः । कुतः । आ । बभूव ॥ १०.१६८.३
ऋग्वेद - मण्डल » 10; सूक्त » 168; मन्त्र » 3
अष्टक » 8; अध्याय » 8; वर्ग » 26; मन्त्र » 3
अष्टक » 8; अध्याय » 8; वर्ग » 26; मन्त्र » 3
पदार्थः -
(अन्तरिक्षे) आकाशे वर्तमानः (पथिभिः) मार्गैः (ईयानः) गच्छन् (कतमत्-चन-अहः) कतमद्दिनमपि (न निविशते) न तिष्ठति (अपां सखा आकाशीयसूक्ष्मजलानां सखा (प्रथमजाः-ऋतावा) प्रथमः प्रसिद्धो जलमयो जलगर्भितः “ऋतमुदकनाम” [निघ० १।१२] (क्व स्वित्-जातः) कुत्रापि दूरस्थाने प्रसिद्धो भवसि (कुतः-आबभूव) कुतोऽपि प्रसृतो भवति ॥३॥