Loading...
ऋग्वेद मण्डल - 10 के सूक्त 173 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 173/ मन्त्र 2
    ऋषिः - ध्रुवः देवता - राज्ञःस्तुतिः छन्दः - भुरिगनुष्टुप् स्वरः - गान्धारः

    इ॒हैवैधि॒ माप॑ च्योष्ठा॒: पर्व॑त इ॒वावि॑चाचलिः । इन्द्र॑ इवे॒ह ध्रु॒वस्ति॑ष्ठे॒ह रा॒ष्ट्रमु॑ धारय ॥

    स्वर सहित पद पाठ

    इ॒ह । ए॒व । ए॒धि॒ । मा । अप॑ । च्यो॒ष्ठाः॒ । पर्व॑तःऽइव । अवि॑ऽचाचलिः । इन्द्र॑ऽइव । इ॒ह । ध्रु॒वः । ति॒ष्ठ॒ । इ॒ह । रा॒ष्ट्रम् । ऊँ॒ इति॑ । धा॒र॒य॒ ॥


    स्वर रहित मन्त्र

    इहैवैधि माप च्योष्ठा: पर्वत इवाविचाचलिः । इन्द्र इवेह ध्रुवस्तिष्ठेह राष्ट्रमु धारय ॥

    स्वर रहित पद पाठ

    इह । एव । एधि । मा । अप । च्योष्ठाः । पर्वतःऽइव । अविऽचाचलिः । इन्द्रऽइव । इह । ध्रुवः । तिष्ठ । इह । राष्ट्रम् । ऊँ इति । धारय ॥ १०.१७३.२

    ऋग्वेद - मण्डल » 10; सूक्त » 173; मन्त्र » 2
    अष्टक » 8; अध्याय » 8; वर्ग » 31; मन्त्र » 2

    पदार्थः -
    (इह-एव-एधि) अस्मिन् राष्ट्रे हि स्वामित्वेन वर्तमानो भव (मा-अपच्योष्ठाः) न त्वं राजपदादपच्युतो भविष्यतीति-आश्वासनम् (पर्वतः-इव-अविचाचलिः) पर्वत इवातिशयेनाविचलो भव-भविष्यति (इन्द्रः-इव-इह ध्रुवः-तिष्ठ) ऐश्वर्यवान् परमेश्वर इवास्मिन् राष्ट्रे ध्रुवः स्थिरो भव (इह राष्ट्रम्-उ धारय) अस्मिन् राजसूयप्रसङ्गे प्रजानां समक्षे राष्ट्रं खलु धारय ॥२॥

    इस भाष्य को एडिट करें
    Top