Loading...
ऋग्वेद मण्डल - 10 के सूक्त 173 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 173/ मन्त्र 3
    ऋषिः - ध्रुवः देवता - राज्ञःस्तुतिः छन्दः - अनुष्टुप् स्वरः - गान्धारः

    इ॒ममिन्द्रो॑ अदीधरद्ध्रु॒वं ध्रु॒वेण॑ ह॒विषा॑ । तस्मै॒ सोमो॒ अधि॑ ब्रव॒त्तस्मा॑ उ॒ ब्रह्म॑ण॒स्पति॑: ॥

    स्वर सहित पद पाठ

    इ॒मम् । इन्द्रः॑ । अ॒दी॒ध॒र॒त् । ध्रु॒वम् । ध्रु॒वेण॑ । ह॒विषा॑ । तस्मै॑ । सोमः॑ । अधि॑ । ब्र॒व॒त् । तस्मै॑ । ऊँ॒ इति॑ । ब्रह्म॑णः । पतिः॑ ॥


    स्वर रहित मन्त्र

    इममिन्द्रो अदीधरद्ध्रुवं ध्रुवेण हविषा । तस्मै सोमो अधि ब्रवत्तस्मा उ ब्रह्मणस्पति: ॥

    स्वर रहित पद पाठ

    इमम् । इन्द्रः । अदीधरत् । ध्रुवम् । ध्रुवेण । हविषा । तस्मै । सोमः । अधि । ब्रवत् । तस्मै । ऊँ इति । ब्रह्मणः । पतिः ॥ १०.१७३.३

    ऋग्वेद - मण्डल » 10; सूक्त » 173; मन्त्र » 3
    अष्टक » 8; अध्याय » 8; वर्ग » 31; मन्त्र » 3

    पदार्थः -
    (इन्द्रः) ऐश्वर्यवान् परमेश्वरः (ध्रुवेण हविषा) स्थिरेण-उपहारदानेन (इमं ध्रुवम्) इमं राष्ट्राधिकारम् (अदीधरत्) त्वयि तुभ्यं वा स्थापितवान्-स्थापयति (तस्मै सोमः-अधिब्रवत्) एतत्कार्याय-राष्ट्राधिकाराय त्वां राज्याधिकारे नियोजयिता पुरोहितो ब्राह्मणः-अधि वदति-अधिकारपूर्वकमाज्ञापयति राज्यं कुरु-इति (तस्मै-उ बृहस्पतिः) तस्मै राज्याधिकाराय तद्ग्रहणाय वेदज्ञो ब्रह्माऽपि साधिकारमाज्ञापयति यद्-राज्याधिकारं स्वीकुरु ॥३॥

    इस भाष्य को एडिट करें
    Top