Loading...
ऋग्वेद मण्डल - 10 के सूक्त 176 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 176/ मन्त्र 4
    ऋषिः - सूनुरार्भवः देवता - अग्निः छन्दः - विराडनुष्टुप् स्वरः - गान्धारः

    अ॒यम॒ग्निरु॑रुष्यत्य॒मृता॑दिव॒ जन्म॑नः । सह॑सश्चि॒त्सही॑यान्दे॒वो जी॒वात॑वे कृ॒तः ॥

    स्वर सहित पद पाठ

    अ॒यम् । अ॒ग्निः । उ॒रु॒ष्य॒ति॒ । अ॒मृता॑त्ऽइव । जन्म॑नः । सह॑सः । चि॒त् । सही॑यान् । दे॒वः । जी॒वात॑वे । कृ॒तः ॥


    स्वर रहित मन्त्र

    अयमग्निरुरुष्यत्यमृतादिव जन्मनः । सहसश्चित्सहीयान्देवो जीवातवे कृतः ॥

    स्वर रहित पद पाठ

    अयम् । अग्निः । उरुष्यति । अमृतात्ऽइव । जन्मनः । सहसः । चित् । सहीयान् । देवः । जीवातवे । कृतः ॥ १०.१७६.४

    ऋग्वेद - मण्डल » 10; सूक्त » 176; मन्त्र » 4
    अष्टक » 8; अध्याय » 8; वर्ग » 34; मन्त्र » 4

    पदार्थः -
    (अयम्-अग्निः) एषोऽग्रणेता परमेश्वरः सूर्यो वा (अमृतात्-इव जन्मनः) न मृतं मरणं भवति तस्माज्जन्मतः-अमरजन्मतः-अमरजन्म मोक्षं प्रदाय “ल्यब्लोपे पञ्चम्युपसंख्यानम्” (उरुष्यति) अस्मान् रक्षति “सूर्यद्वारेण ते विरजाः प्रयान्ति” [मुण्डको० १।२।११] (सहसः-चित् सहीयान् देवः) बलवतोऽपि खल्वतिशयेन बलवान् देवः परमेश्वरः सूर्यो वा (जीवातवे कृतः) स्वकीयामरजीवनायास्माभिरङ्गीकृतः-आश्रित उपासितः सेवितो वा ॥४॥

    इस भाष्य को एडिट करें
    Top