साइडबार
ऋग्वेद - मण्डल 10/ सूक्त 177/ मन्त्र 3
ऋषिः - पतङ्गः प्राजापत्यः
देवता - मायाभेदः
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
अप॑श्यं गो॒पामनि॑पद्यमान॒मा च॒ परा॑ च प॒थिभि॒श्चर॑न्तम् । स स॒ध्रीची॒: स विषू॑ची॒र्वसा॑न॒ आ व॑रीवर्ति॒ भुव॑नेष्व॒न्तः ॥
स्वर सहित पद पाठअप॑श्यम् । गो॒पाम् । अनि॑ऽपद्यमानम् । आ । च॒ । परा॑ । च॒ । प॒थिऽभिः॑ । चर॑न्तम् । सः । स॒ध्रीचीः॑ । सः । विषू॑चीः । वसा॑नः । आ । व॒री॒व॒र्ति॒ । भुव॑नेषु । अ॒न्तरिति॑ ॥
स्वर रहित मन्त्र
अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम् । स सध्रीची: स विषूचीर्वसान आ वरीवर्ति भुवनेष्वन्तः ॥
स्वर रहित पद पाठअपश्यम् । गोपाम् । अनिऽपद्यमानम् । आ । च । परा । च । पथिऽभिः । चरन्तम् । सः । सध्रीचीः । सः । विषूचीः । वसानः । आ । वरीवर्ति । भुवनेषु । अन्तरिति ॥ १०.१७७.३
ऋग्वेद - मण्डल » 10; सूक्त » 177; मन्त्र » 3
अष्टक » 8; अध्याय » 8; वर्ग » 35; मन्त्र » 3
अष्टक » 8; अध्याय » 8; वर्ग » 35; मन्त्र » 3
पदार्थः -
(पथिभिः-आचरन्तं च परा च ) मार्गै रश्मिमार्गैः-आचरन्तं शरीरे खल्वागच्छन्तं तथा परा चरन्तं शरीरात् पृथग्भवन्तं मोक्षे गच्छन्तं च (अनिपद्यमानं गोपाम्-अपश्यम्) अविनश्वरं नित्यमिन्द्रियस्वामिनमात्मानमहं जानामि (सः-सध्रीचीः-सः-विषूचीः-वसानः) स आत्मा सहाञ्चतीः सहयोगिनीः पुण्यरूपाः धर्म्यवासनास्तथा विरुद्धाञ्चतीः-विपरीतवासना अधर्म्यवासनाः स्वोपरि खल्वाच्छादयन् (भुवनेषु-अन्तः-आवरीवर्ति) लोकेषु जन्मसु योनिषु पुनः पुनरावर्तते ॥३॥