साइडबार
ऋग्वेद - मण्डल 10/ सूक्त 177/ मन्त्र 2
ऋषिः - पतङ्गः प्राजापत्यः
देवता - मायाभेदः
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
प॒तं॒गो वाचं॒ मन॑सा बिभर्ति॒ तां ग॑न्ध॒र्वो॑ऽवद॒द्गर्भे॑ अ॒न्तः । तां द्योत॑मानां स्व॒र्यं॑ मनी॒षामृ॒तस्य॑ प॒दे क॒वयो॒ नि पा॑न्ति ॥
स्वर सहित पद पाठप॒त॒ङ्गः । वाच॑म् । मन॑सा । बि॒भ॒र्ति॒ । तान् । ग॒न्ध॒र्वः॑ । अ॒व॒द॒त् । गर्भे॑ । अ॒न्तरिति॑ । ताम् । द्योत॑मानाम् । स्व॒र्य॑म् । म॒नी॒षाम् । ऋ॒तस्य॑ । प॒दे । क॒वयः॑ । नि । पा॒न्ति॒ ॥
स्वर रहित मन्त्र
पतंगो वाचं मनसा बिभर्ति तां गन्धर्वोऽवदद्गर्भे अन्तः । तां द्योतमानां स्वर्यं मनीषामृतस्य पदे कवयो नि पान्ति ॥
स्वर रहित पद पाठपतङ्गः । वाचम् । मनसा । बिभर्ति । तान् । गन्धर्वः । अवदत् । गर्भे । अन्तरिति । ताम् । द्योतमानाम् । स्वर्यम् । मनीषाम् । ऋतस्य । पदे । कवयः । नि । पान्ति ॥ १०.१७७.२
ऋग्वेद - मण्डल » 10; सूक्त » 177; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 35; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 35; मन्त्र » 2
पदार्थः -
(पतङ्गः-वाचं मनसा बिभर्ति) जीवात्मा वाचं मनसा मननवृत्त्या धारयति (तां गन्धर्वः-गर्भे-अन्तः-अवदत्) तां वाचं प्राणवायुः “प्राणो वै गन्धर्वः” [जै० उ० ३।६।८।३] स्वमध्ये वदति “मारुतस्तूरसि चरन् मन्द्रं जनयति स्वरम्” [पाणिनीय शिक्षा० ७] (तां द्योतमानां-मनीषाम्) तां प्रकाशमानां मनोवशाम् (कवयः-ऋतस्य पदे स्वर्यं नि पान्ति) मेधाविनो जना ज्ञानस्य प्राप्तव्ये स्वर्ये पदे “स्वर्यमिति सप्तम्यां द्वितीया छान्दसी” नियतं रक्षन्ति ॥२॥