Loading...
ऋग्वेद मण्डल - 10 के सूक्त 179 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 179/ मन्त्र 2
    ऋषिः - प्रतर्दनः काशिराजः देवता - इन्द्र: छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    श्रा॒तं ह॒विरो ष्वि॑न्द्र॒ प्र या॑हि ज॒गाम॒ सूरो॒ अध्व॑नो॒ विम॑ध्यम् । परि॑ त्वासते नि॒धिभि॒: सखा॑यः कुल॒पा न व्रा॒जप॑तिं॒ चर॑न्तम् ॥

    स्वर सहित पद पाठ

    श्रा॒तम् । ह॒विः । ओ इति॑ । सु । इ॒न्द्र॒ । प्र । या॒हि॒ । ज॒गाम॑ । सूरः॑ । अध्व॑नः । विऽम॑ध्यम् । परि॑ । त्वा॒ । आ॒स॒ते॒ । नि॒धिऽभिः॑ । सखा॑यः । कु॒ल॒ऽपाः । न । व्रा॒जऽप॑तिम् । चर॑न्तम् ॥


    स्वर रहित मन्त्र

    श्रातं हविरो ष्विन्द्र प्र याहि जगाम सूरो अध्वनो विमध्यम् । परि त्वासते निधिभि: सखायः कुलपा न व्राजपतिं चरन्तम् ॥

    स्वर रहित पद पाठ

    श्रातम् । हविः । ओ इति । सु । इन्द्र । प्र । याहि । जगाम । सूरः । अध्वनः । विऽमध्यम् । परि । त्वा । आसते । निधिऽभिः । सखायः । कुलऽपाः । न । व्राजऽपतिम् । चरन्तम् ॥ १०.१७९.२

    ऋग्वेद - मण्डल » 10; सूक्त » 179; मन्त्र » 2
    अष्टक » 8; अध्याय » 8; वर्ग » 37; मन्त्र » 2

    पदार्थः -
    (इन्द्र) हे राजन् ! (श्रातं हविः-उ सु) सुपक्वं हि खल्वदनीयमन्नं “हविः-अत्तव्यमन्नम्” [यजु० २९।११ दयानन्दः] (प्र-आयाहि) प्रकृष्टमागच्छ (सूरः-अध्वनः-वि मध्यं जगाम) सूर्यः “सूरः-यः सरति स सूर्यः” [ऋ० १।५०।९ दयानन्दः] “सूर उदिति” मार्गस्य विशिष्टमध्यमं कालमुत्तरायणस्य मध्यमाषाढमासं प्राप्तवान् (सखायः) समानख्यानाः समानराष्ट्राः प्रमुखप्रजाजनाः (निधिभिः) समर्पणयोग्यैर्निधानैरन्नैः सह तद्दानाय (त्वा परि-आसते) त्वां परित-उपविशन्ति प्रतीक्षन्ते, इत्यर्थः, (व्राजपतिं चरन्तं कुलपाः-न) व्रजन्ति यस्मिन् स व्राजः-“घञ्प्रत्ययोऽधिकरणे” व्राजस्य गृहस्य पतिं चरन्तं सेव्यमानम् ‘कर्मणि कर्तृप्रत्ययो व्यत्ययेन’ कुलस्य वंशस्य रक्षका भाविवंशचालकाः पुत्रादयः यथा तमुपविशन्ति ॥२॥

    इस भाष्य को एडिट करें
    Top