साइडबार
ऋग्वेद - मण्डल 10/ सूक्त 190/ मन्त्र 2
ऋषिः - अघमर्षणो माधुच्छन्दसः
देवता - भाववृत्तम्
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
स॒मु॒द्राद॑र्ण॒वादधि॑ संवत्स॒रो अ॑जायत । अ॒हो॒रा॒त्राणि॑ वि॒दध॒द्विश्व॑स्य मिष॒तो व॒शी ॥
स्वर सहित पद पाठस॒मु॒द्रात् । अ॒र्ण॒वात् । अधि॑ । स॒व्वँ॒त्स॒रः । अ॒जा॒य॒त॒ । अ॒हो॒रा॒त्राणि॑ । वि॒ऽदध॑त् । विश्व॑स्य । मि॒ष॒तः । व॒शी ॥
स्वर रहित मन्त्र
समुद्रादर्णवादधि संवत्सरो अजायत । अहोरात्राणि विदधद्विश्वस्य मिषतो वशी ॥
स्वर रहित पद पाठसमुद्रात् । अर्णवात् । अधि । सव्वँत्सरः । अजायत । अहोरात्राणि । विऽदधत् । विश्वस्य । मिषतः । वशी ॥ १०.१९०.२
ऋग्वेद - मण्डल » 10; सूक्त » 190; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 48; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 48; मन्त्र » 2
पदार्थः -
(अर्णवात् समुद्रात्-अधि) गतिमतः परमाणुसमुद्रादुपरि तदनन्तरम् (संवत्सरः-अजायत) समस्त संसारस्य कालः प्रसिद्धो जातः (मिषतः-विश्वस्य-अहोरात्राणि-विदधत्-वशी) गतिं कुर्वतो विश्वस्य पृथिवीप्रभृतेः पिण्डस्याहोरात्राणि कियन्ती कस्य स्युरिति विधानं कुर्वन् वशी स्वामी भवति ॥२॥