Loading...
ऋग्वेद मण्डल - 10 के सूक्त 190 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 190/ मन्त्र 3
    ऋषिः - अघमर्षणो माधुच्छन्दसः देवता - भाववृत्तम् छन्दः - पादनिचृत्त्रिष्टुप् स्वरः - गान्धारः

    सू॒र्या॒च॒न्द्र॒मसौ॑ धा॒ता य॑थापू॒र्वम॑कल्पयत् । दिवं॑ च पृथि॒वीं चा॒न्तरि॑क्ष॒मथो॒ स्व॑: ॥

    स्वर सहित पद पाठ

    सू॒र्या॒च॒न्द्र॒मसौ॑ । धा॒ता । य॒था॒पू॒र्वम् । अ॒क॒ल्प॒य॒त् । दिव॑म् । च॒ । पृ॒थि॒वीम् । च॒ । अ॒न्तरि॑क्षम् । अथो॒ इति॑ । स्वः॑ ॥


    स्वर रहित मन्त्र

    सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् । दिवं च पृथिवीं चान्तरिक्षमथो स्व: ॥

    स्वर रहित पद पाठ

    सूर्याचन्द्रमसौ । धाता । यथापूर्वम् । अकल्पयत् । दिवम् । च । पृथिवीम् । च । अन्तरिक्षम् । अथो इति । स्वः ॥ १०.१९०.३

    ऋग्वेद - मण्डल » 10; सूक्त » 190; मन्त्र » 3
    अष्टक » 8; अध्याय » 8; वर्ग » 48; मन्त्र » 3

    पदार्थः -
    (धाता सूर्याचन्द्रमसौ यथापूर्वम्-अकल्पयत्) धारयिता परमेश्वरः सूर्यचन्द्रलोकौ पूर्वकल्पे यथा तथा (दिवं च-पृथिवीं च-अन्तरिक्षम्-अथ स्वः-अकल्पयत्) द्युलोकं पृथिवीम्-अन्तरिक्षं तथाऽन्यलोकलोकान्तरं रचितवान् ॥३॥।

    इस भाष्य को एडिट करें
    Top