Loading...
ऋग्वेद मण्डल - 10 के सूक्त 40 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 40/ मन्त्र 13
    ऋषिः - घोषा काक्षीवती देवता - अश्विनौ छन्दः - जगती स्वरः - निषादः

    ता म॑न्दसा॒ना मनु॑षो दुरो॒ण आ ध॒त्तं र॒यिं स॒हवी॑रं वच॒स्यवे॑ । कृ॒तं ती॒र्थं सु॑प्रपा॒णं शु॑भस्पती स्था॒णुं प॑थे॒ष्ठामप॑ दुर्म॒तिं ह॑तम् ॥

    स्वर सहित पद पाठ

    ता । म॒न्द॒सा॒ना । मनु॑षः । दु॒रो॒णे । आ । ध॒त्तम् । र॒यिम् । स॒हऽवी॑रम् । व॒च॒स्यवे॑ । कृ॒तम् । ती॒र्थम् । सु॒ऽप्र॒पा॒नम् । शु॒भः॒ । प॒ती॒ इति॑ । स्था॒णुम् । प॒थे॒ऽस्थाम् । अप॑ । दुः॒ऽम॒तिम् । ह॒त॒म् ॥


    स्वर रहित मन्त्र

    ता मन्दसाना मनुषो दुरोण आ धत्तं रयिं सहवीरं वचस्यवे । कृतं तीर्थं सुप्रपाणं शुभस्पती स्थाणुं पथेष्ठामप दुर्मतिं हतम् ॥

    स्वर रहित पद पाठ

    ता । मन्दसाना । मनुषः । दुरोणे । आ । धत्तम् । रयिम् । सहऽवीरम् । वचस्यवे । कृतम् । तीर्थम् । सुऽप्रपानम् । शुभः । पती इति । स्थाणुम् । पथेऽस्थाम् । अप । दुःऽमतिम् । हतम् ॥ १०.४०.१३

    ऋग्वेद - मण्डल » 10; सूक्त » 40; मन्त्र » 13
    अष्टक » 7; अध्याय » 8; वर्ग » 20; मन्त्र » 3

    पदार्थः -
    (ता मन्दसाना शुभस्पती) हे तौ मोदयमानौ “मदि स्तुतिमोद ……” [भ्वादिः] ‘ततः असानच् प्रत्ययः-औणादिकः’ कल्याणस्य पती कल्याणप्रदौ (मनुषः दुरोणे) मनुष्यस्य गृहे “दुरोण गृहनाम” [निघ० ३।४] (वचस्यवे) आत्मनो वचः-उपदेशवचनमिच्छवे “वचस्युवम्-आत्मनो वचनमिच्छन्तम्” [ऋ० २।१६।७ दयानन्दः] (सहवीरं रयिम्-आधत्तम्) पुत्रसहितं धनपोषं सम्पादयतम् “रयिं देहि पोषं देहि” [काठ० १।७] (सुप्रपाणं तीर्थं कृतम्) सुन्दरसुखप्रपैव पापतारकं गृहस्थाश्रमं कुरुतम् (पथेष्ठां दुर्मतिं स्थाणुम्-अपहतम्) गृहस्थमार्गे प्राप्तां दुर्वासनां जडतां च दूरी कुरुतम् ॥१३॥

    इस भाष्य को एडिट करें
    Top