Loading...
ऋग्वेद मण्डल - 10 के सूक्त 40 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 40/ मन्त्र 14
    ऋषिः - घोषा काक्षीवती देवता - अश्विनौ छन्दः - विराड्जगती स्वरः - निषादः

    क्व॑ स्विद॒द्य क॑त॒मास्व॒श्विना॑ वि॒क्षु द॒स्रा मा॑दयेते शु॒भस्पती॑ । क ईं॒ नि ये॑मे कत॒मस्य॑ जग्मतु॒र्विप्र॑स्य वा॒ यज॑मानस्य वा गृ॒हम् ॥

    स्वर सहित पद पाठ

    क्व॑ । स्वि॒त् । अ॒द्य । क॒त॒मासु॑ । अ॒श्विना॑ । वि॒क्षु । द॒स्रा । मा॒द॒ये॒ते॒ इति॑ । शु॒भः । पती॒ इति॑ । कः । ई॒म् । नि । ये॒मे॒ । क॒त॒मस्य॑ । ज॒ग्म॒तुः॒ । विप्र॑स्य । वा॒ । यज॑मानस्य । वा॒ । गृ॒हम् ॥


    स्वर रहित मन्त्र

    क्व स्विदद्य कतमास्वश्विना विक्षु दस्रा मादयेते शुभस्पती । क ईं नि येमे कतमस्य जग्मतुर्विप्रस्य वा यजमानस्य वा गृहम् ॥

    स्वर रहित पद पाठ

    क्व । स्वित् । अद्य । कतमासु । अश्विना । विक्षु । दस्रा । मादयेते इति । शुभः । पती इति । कः । ईम् । नि । येमे । कतमस्य । जग्मतुः । विप्रस्य । वा । यजमानस्य । वा । गृहम् ॥ १०.४०.१४

    ऋग्वेद - मण्डल » 10; सूक्त » 40; मन्त्र » 14
    अष्टक » 7; अध्याय » 8; वर्ग » 20; मन्त्र » 4

    पदार्थः -
    (दस्रा शुभस्पती-अश्विना) हे दर्शनीयौ “दस् दर्शने” [चुरादिः] औणादिको रक् प्रत्ययः, कल्याणस्वामिनौ कल्याणप्रदौ सुशिक्षितौ स्थविरौ स्त्रीपुरुषौ ! युवाम् (अद्य क्वस्वित्) अद्य कुत्र हि स्थः (कतमासु विक्षु मादयेते) कतमासु मनुष्यप्रजासु हर्षमाप्नुथः (कः ईम्-नियेमे) कः खलु गृहस्थ एवं स्वस्थानेऽवरोधयति यद्वा नियमेन रक्षति (कतमस्य विप्रस्य वा यजमानस्य वा गृहं जग्मतुः) कतमस्य विदुषो मेधाविनो वा यजमानस्य सत्कर्तुं गृहं गच्छथः-जग्मतुः मध्यमस्य स्थाने प्रथमा व्यत्ययेन एतौ-अश्विनौ स्थविरौ स्त्रीपुरुषाविति विचारणा स्वगृहे निमन्त्रणाकाङ्क्षा कार्या ॥१४॥

    इस भाष्य को एडिट करें
    Top