ऋग्वेद - मण्डल 10/ सूक्त 53/ मन्त्र 3
सा॒ध्वीम॑कर्दे॒ववी॑तिं नो अ॒द्य य॒ज्ञस्य॑ जि॒ह्वाम॑विदाम॒ गुह्या॑म् । स आयु॒रागा॑त्सुर॒भिर्वसा॑नो भ॒द्राम॑कर्दे॒वहू॑तिं नो अ॒द्य ॥
स्वर सहित पद पाठसा॒ध्वीम् । अ॒कः॒ । दे॒वऽवी॑तिम् । नः॒ । अ॒द्य । य॒ज्ञस्य॑ । जि॒ह्वाम् । अ॒वि॒दा॒म॒ । गुह्या॑म् । सः । आयुः॑ । आ । अ॒गा॒त् । सु॒र॒भिः । वसा॑नः । भ॒द्राम् । अ॒कः॒ । दे॒वऽहू॑तिम् । नः॒ । अ॒द्य ॥
स्वर रहित मन्त्र
साध्वीमकर्देववीतिं नो अद्य यज्ञस्य जिह्वामविदाम गुह्याम् । स आयुरागात्सुरभिर्वसानो भद्रामकर्देवहूतिं नो अद्य ॥
स्वर रहित पद पाठसाध्वीम् । अकः । देवऽवीतिम् । नः । अद्य । यज्ञस्य । जिह्वाम् । अविदाम । गुह्याम् । सः । आयुः । आ । अगात् । सुरभिः । वसानः । भद्राम् । अकः । देवऽहूतिम् । नः । अद्य ॥ १०.५३.३
ऋग्वेद - मण्डल » 10; सूक्त » 53; मन्त्र » 3
अष्टक » 8; अध्याय » 1; वर्ग » 13; मन्त्र » 3
अष्टक » 8; अध्याय » 1; वर्ग » 13; मन्त्र » 3
पदार्थः -
(अद्य) अस्मिन् जन्मावसरे विद्वत्सम्मेलनावसरे वा (नः) अस्मभ्यम् (साध्वीं देववीतिम्-अकः) समीचीनां देवानामिन्द्रियाणां भोगप्राप्तिं “देववीतिं देवानां दिव्यानां गुणानां भोगानां प्राप्तये” [यजु० ५।९ दयानन्दः] विदुषां ज्ञानप्राप्तिं वा करोति (यज्ञस्य गुह्यां जिह्वाम्-अविदाम) तद्द्वारा शरीरयज्ञस्य ज्ञानयज्ञस्य रहस्यभूतां वाचं विद्यामिति यावत् “जिह्वा वाङ्नाम” [निघ० १।११] (सः-आयुः सुरभिर्वसानः-आगात्) स आत्मा विद्वान् वा आयुर्निमित्तो जीवनप्रदः ज्ञाननिमित्तो ज्ञाता “ज्ञाता” [ऋ० १।१६२।१ दयानन्दः] निजगुणसुगन्धरूपोऽस्मानाच्छादयन् संरक्षयन् (अद्य) अस्मिन् जन्मावसरे सत्सङ्गावसरे वा (नः) अस्मभ्यम् (भद्रां देवहूतिम्-अकः) कल्याणकरीं दिव्यगुणानां विदुषां वा सङ्गृहितिम् “देवहूतौ दिव्यगुणां विदुषां वा सङ्ग्रहणे” [ऋ० ६।५२।४ दयानन्दः] करोति ॥३॥