Loading...
ऋग्वेद मण्डल - 10 के सूक्त 53 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 53/ मन्त्र 2
    ऋषिः - देवाः देवता - अग्निः सौचीकः छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    अरा॑धि॒ होता॑ नि॒षदा॒ यजी॑यान॒भि प्रयां॑सि॒ सुधि॑तानि॒ हि ख्यत् । यजा॑महै य॒ज्ञिया॒न्हन्त॑ दे॒वाँ ईळा॑महा॒ ईड्याँ॒ आज्ये॑न ॥

    स्वर सहित पद पाठ

    अरा॑धि । होता॑ । नि॒ऽसदा॑ । यजी॑यान् । अ॒भि । प्रयां॑सि । सुऽधि॑तानि । हि । ख्यत् । यजा॑महै । य॒ज्ञिया॑न् । हन्त॑ । दे॒वान् । ईळा॑महै । ईड्या॑न् । आज्ये॑न ॥


    स्वर रहित मन्त्र

    अराधि होता निषदा यजीयानभि प्रयांसि सुधितानि हि ख्यत् । यजामहै यज्ञियान्हन्त देवाँ ईळामहा ईड्याँ आज्येन ॥

    स्वर रहित पद पाठ

    अराधि । होता । निऽसदा । यजीयान् । अभि । प्रयांसि । सुऽधितानि । हि । ख्यत् । यजामहै । यज्ञियान् । हन्त । देवान् । ईळामहै । ईड्यान् । आज्येन ॥ १०.५३.२

    ऋग्वेद - मण्डल » 10; सूक्त » 53; मन्त्र » 2
    अष्टक » 8; अध्याय » 1; वर्ग » 13; मन्त्र » 2

    पदार्थः -
    (निषदा) नियतस्थाने ‘आकारादेशश्छान्दसः’ (यजीयान् होता-अराधि) शरीरयज्ञस्य सञ्चालको विदुषां वाऽतिसङ्गमनशीलो ह्वाता संसाधितोऽनुकूलीकृतः (प्रयांसि सुधितानि हि-अभिख्यत्) प्रीतिकराणि सुहितानि सुखानि हि योऽभिदर्शयति ज्ञापयति वा, अतः (यज्ञियान् यजामहे) तदागमनेन यज्ञार्हान् पूजायोग्यान् प्रसन्नतया तदादेशेन वा पूजयामः (हन्त) अहो (देवान्-ईळामहै) विदुषः प्रशंसामः (आज्येन-ईड्यान्) स्नेहद्रव्येण “आज्यस्य स्नेहद्रव्यस्य” [यजु० ६।१६ दयानन्दः] स्तोतव्यान् पूजयामः ॥२॥

    इस भाष्य को एडिट करें
    Top