ऋग्वेद - मण्डल 10/ सूक्त 53/ मन्त्र 4
तद॒द्य वा॒चः प्र॑थ॒मं म॑सीय॒ येनासु॑राँ अ॒भि दे॒वा असा॑म । ऊर्जा॑द उ॒त य॑ज्ञियास॒: पञ्च॑ जना॒ मम॑ हो॒त्रं जु॑षध्वम् ॥
स्वर सहित पद पाठतत् । अ॒द्य । वा॒च । प्र॒थ॒मम् । म॒सी॒य॒ । येन॑ । असु॑रान् । अ॒भि । दे॒वाः । असा॑म । ऊर्ज॑ऽअदः । उ॒त । य॒ज्ञि॒या॒सः॒ । पञ्च॑ । ज॒नाः॒ । मम॑ । हो॒त्रम् । जु॒ष॒ध्व॒म् ॥
स्वर रहित मन्त्र
तदद्य वाचः प्रथमं मसीय येनासुराँ अभि देवा असाम । ऊर्जाद उत यज्ञियास: पञ्च जना मम होत्रं जुषध्वम् ॥
स्वर रहित पद पाठतत् । अद्य । वाच । प्रथमम् । मसीय । येन । असुरान् । अभि । देवाः । असाम । ऊर्जऽअदः । उत । यज्ञियासः । पञ्च । जनाः । मम । होत्रम् । जुषध्वम् ॥ १०.५३.४
ऋग्वेद - मण्डल » 10; सूक्त » 53; मन्त्र » 4
अष्टक » 8; अध्याय » 1; वर्ग » 13; मन्त्र » 4
अष्टक » 8; अध्याय » 1; वर्ग » 13; मन्त्र » 4
पदार्थः -
(अद्य) अस्मिन् जन्मावसरे सम्मेलनावसरे (वाचः-तत् प्रथमं मंसीय) वेदवाचः प्रथमं प्रमुखं लक्ष्यं ब्रह्म ब्रह्मवाचकं नाम ‘ओ३म्’ चिन्तयेयम् (येन-असुरान् देवाः-अभि-असाम) येन खलु दुष्टान् वयं विद्वांसोऽभिभवेम, अतः (ऊर्जादः) अन्नभोक्तारः “ऊर्जादः-अन्नादः” [निरु० ३।८] (उत) अपि (यज्ञियासः पञ्चजनाः) यज्ञियसूक्ष्माहारा मनुष्याः “पञ्चजनाः-मनुष्यनाम” [निघ० २।३] (मम होत्रं जुषध्वम्) मम ह्वानं हितवचनं सेवेध्वम् ॥४॥