ऋग्वेद - मण्डल 10/ सूक्त 53/ मन्त्र 5
ऋषिः - अग्निः सौचीकः
देवता - देवाः
छन्दः - स्वराडार्चीत्रिष्टुप्
स्वरः - धैवतः
पञ्च॒ जना॒ मम॑ हो॒त्रं जु॑षन्तां॒ गोजा॑ता उ॒त ये य॒ज्ञिया॑सः । पृ॒थि॒वी न॒: पार्थि॑वात्पा॒त्वंह॑सो॒ऽन्तरि॑क्षं दि॒व्यात्पा॑त्व॒स्मान् ॥
स्वर सहित पद पाठपञ्च॑ । ज॒नाः॒ । मम॑ । हो॒त्रम् । जु॒ष॒न्ता॒म् । गोऽजा॑ताः । उ॒त । ये । य॒ज्ञिया॑सः । पृ॒थि॒वी । नः॒ । पार्थि॑वात् । पा॒तु॒ । अंह॑सः । अ॒न्तरि॑क्षम् । दि॒व्यात् । पा॒तु॒ । अ॒स्मान् ॥
स्वर रहित मन्त्र
पञ्च जना मम होत्रं जुषन्तां गोजाता उत ये यज्ञियासः । पृथिवी न: पार्थिवात्पात्वंहसोऽन्तरिक्षं दिव्यात्पात्वस्मान् ॥
स्वर रहित पद पाठपञ्च । जनाः । मम । होत्रम् । जुषन्ताम् । गोऽजाताः । उत । ये । यज्ञियासः । पृथिवी । नः । पार्थिवात् । पातु । अंहसः । अन्तरिक्षम् । दिव्यात् । पातु । अस्मान् ॥ १०.५३.५
ऋग्वेद - मण्डल » 10; सूक्त » 53; मन्त्र » 5
अष्टक » 8; अध्याय » 1; वर्ग » 13; मन्त्र » 5
अष्टक » 8; अध्याय » 1; वर्ग » 13; मन्त्र » 5
पदार्थः -
(पञ्चजनाः मम होत्रं जुषन्ताम्) मनुष्याः-खलु मम ह्वानं वचनं सेवन्ताम् (गोजाताः-उत ये यज्ञियासः) वेदवाचि जाता निष्णाताः, तथा ये यज्ञार्हाः कर्मकाण्डिनः (पृथिवी नः पार्थिवात् अंहसः-अस्मान् पातु) सम्यग्वेदोपदेशमनुसरतोऽस्मान् पृथिवी, पृथिवीसम्बन्धिनो दोषादस्मान् पातु-रक्षति-रक्षिष्यति (अन्तरिक्षं दिव्यात् पातु) अन्तरिक्षमाकाशः, दिविभवादाकाशभवाद् दोषादतिवृष्ट्यादेर्दोषाद् रक्षतु-रक्षिष्यति ॥५॥