ऋग्वेद - मण्डल 10/ सूक्त 53/ मन्त्र 6
तन्तुं॑ त॒न्वन्रज॑सो भा॒नुमन्वि॑हि॒ ज्योति॑ष्मतः प॒थो र॑क्ष धि॒या कृ॒तान् । अ॒नु॒ल्ब॒णं व॑यत॒ जोगु॑वा॒मपो॒ मनु॑र्भव ज॒नया॒ दैव्यं॒ जन॑म् ॥
स्वर सहित पद पाठतन्तु॑म् । त॒न्वन् । रज॑सः । भा॒नुम् । अनु॑ । इ॒हि॒ । ज्योति॑ष्मतः । प॒थः । र॒क्ष॒ । धि॒या । कृ॒तान् । अ॒नु॒ल्ब॒णम् । व॒य॒त॒ । जोगु॑वाम् । अपः॑ । मनुः॑ । भ॒व॒ । ज॒नय॑ । दैव्य॑म् । जन॑म् ॥
स्वर रहित मन्त्र
तन्तुं तन्वन्रजसो भानुमन्विहि ज्योतिष्मतः पथो रक्ष धिया कृतान् । अनुल्बणं वयत जोगुवामपो मनुर्भव जनया दैव्यं जनम् ॥
स्वर रहित पद पाठतन्तुम् । तन्वन् । रजसः । भानुम् । अनु । इहि । ज्योतिष्मतः । पथः । रक्ष । धिया । कृतान् । अनुल्बणम् । वयत । जोगुवाम् । अपः । मनुः । भव । जनय । दैव्यम् । जनम् ॥ १०.५३.६
ऋग्वेद - मण्डल » 10; सूक्त » 53; मन्त्र » 6
अष्टक » 8; अध्याय » 1; वर्ग » 14; मन्त्र » 1
अष्टक » 8; अध्याय » 1; वर्ग » 14; मन्त्र » 1
पदार्थः -
(तन्तुं तन्वन् रजसः-भानुम्-अन्विहि) हे गृहस्थस्य कुले पितृकुले गुरुकुले जातो निष्णातो विद्वन् त्वं सन्ततिक्रमं शिष्यक्रमं विस्तारयन्-विस्तारयितुं मनोरञ्जनस्याध्यात्मरञ्जनस्य भानुं परम्परया प्रसिद्धं ज्ञानमनुगच्छानुतिष्ठ (धिया कृतान्) कर्मणा कृतान् “धीः कर्मनाम” [निघ० २।१] “धीः प्रज्ञानाम” [निघ० ३।९] यद्वा बुद्ध्या कृतान् (ज्योतिष्मतः पथः-रक्ष) बहुन्याययुक्तान् मार्गान् “ज्योतिष्मत्-बहुन्याययुक्तम्” [ऋ० १।१३६।३ दयानन्दः] रक्ष-आचर (जोगुवाम्-अनुल्बणम्-अपः-वयत) भृशमुपदेष्टॄणां दोषरहितं कर्म “अपः कर्मनाम” [निघ० २।१] प्रतानय (मनुः-भव) मननशीलो भव (दैव्यं जनं जनय) दिव्यगुणयुक्तं पुत्रं शिष्यं वा उत्पादय सम्पादय वा ॥६॥