Loading...
ऋग्वेद मण्डल - 10 के सूक्त 97 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 97/ मन्त्र 1
    ऋषिः - भिषगाथर्वणः देवता - औषधीस्तुतिः छन्दः - अनुष्टुप् स्वरः - गान्धारः

    या ओष॑धी॒: पूर्वा॑ जा॒ता दे॒वेभ्य॑स्त्रियु॒गं पु॒रा । मनै॒ नु ब॒भ्रूणा॑म॒हं श॒तं धामा॑नि स॒प्त च॑ ॥

    स्वर सहित पद पाठ

    याः । ओष॑धीः । पूर्वा॑ । जा॒ता । दे॒वेभ्यः॑ । त्रि॒ऽयु॒गम् । पु॒रा । मनै॑ । नु । ब॒भ्रूणा॑म् । अ॒हम् । श॒तम् । धामा॑नि । स॒प्त । च॒ ॥


    स्वर रहित मन्त्र

    या ओषधी: पूर्वा जाता देवेभ्यस्त्रियुगं पुरा । मनै नु बभ्रूणामहं शतं धामानि सप्त च ॥

    स्वर रहित पद पाठ

    याः । ओषधीः । पूर्वा । जाता । देवेभ्यः । त्रिऽयुगम् । पुरा । मनै । नु । बभ्रूणाम् । अहम् । शतम् । धामानि । सप्त । च ॥ १०.९७.१

    ऋग्वेद - मण्डल » 10; सूक्त » 97; मन्त्र » 1
    अष्टक » 8; अध्याय » 5; वर्ग » 8; मन्त्र » 1

    पदार्थः -
    (याः पूर्वाः ओषधीः) याः श्रेष्ठा ओषधयः “विभक्तिव्यत्ययेन जसः स्थाने शस्” (पुरा त्रियुगम्) पुराकालात्-आरभ्य सृष्टितोऽद्ययावत् त्रीणि-युगानि “अत्यन्तसंयोगे द्वितीया” “त्रियुगं त्रीणि युगानि” [निरु० ९।२८] त्रियुगेषु-वसन्ते प्रावृषि शरदि (देवेभ्यः-जाताः) भौतिकदेवेभ्यः-भौतिकदेवानां शक्तिमादायोत्पन्नाः (बभ्रूणाम्) बभ्रुवर्णानां यद्वा रोगहरणानां पोषयित्रीणाम् “बभ्रूणां बभ्रुवर्णानां हरणानां भरणानामिति वा” [निरु० ९।२९] (शतं सप्त च धामानि) सप्ताधिकं शतं यासां जन्मानि यद्वा प्राणिशरीरस्य मर्माणि प्रयोगस्थानानि (नु मनै) अवश्यं मन्येऽहं भिषक् ॥१॥

    इस भाष्य को एडिट करें
    Top