ऋग्वेद - मण्डल 10/ सूक्त 99/ मन्त्र 11
ऋषिः - वम्रो वैखानसः
देवता - इन्द्र:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
अ॒स्य स्तोमे॑भिरौशि॒ज ऋ॒जिश्वा॑ व्र॒जं द॑रयद्वृष॒भेण॒ पिप्रो॑: । सुत्वा॒ यद्य॑ज॒तो दी॒दय॒द्गीः पुर॑ इया॒नो अ॒भि वर्प॑सा॒ भूत् ॥
स्वर सहित पद पाठअ॒स्य । स्तोमे॑भिः । औ॒शि॒जः । ऋ॒जिश्वा॑ । व्र॒जम् । द॒र॒य॒त् । वृ॒ष॒भेण॑ । पिप्रोः॑ । सुत्वा॑ । यत् । य॒ज॒तः । दी॒दय॑त् । गीः । पुरः॑ । इ॒या॒नः । अ॒भि । वर्प॑सा । भूत् ॥
स्वर रहित मन्त्र
अस्य स्तोमेभिरौशिज ऋजिश्वा व्रजं दरयद्वृषभेण पिप्रो: । सुत्वा यद्यजतो दीदयद्गीः पुर इयानो अभि वर्पसा भूत् ॥
स्वर रहित पद पाठअस्य । स्तोमेभिः । औशिजः । ऋजिश्वा । व्रजम् । दरयत् । वृषभेण । पिप्रोः । सुत्वा । यत् । यजतः । दीदयत् । गीः । पुरः । इयानः । अभि । वर्पसा । भूत् ॥ १०.९९.११
ऋग्वेद - मण्डल » 10; सूक्त » 99; मन्त्र » 11
अष्टक » 8; अध्याय » 5; वर्ग » 15; मन्त्र » 5
अष्टक » 8; अध्याय » 5; वर्ग » 15; मन्त्र » 5
पदार्थः -
(ऋजिश्वा) सरलज्ञानादिगुणप्राप्तः श्रेष्ठजनः “य ऋजीन् ज्ञानादिसरलान् गुणानश्नुते” ऋजधातोरिक् अशूङ् धातोर्ङ्वनिप्-अकारलोपश्च [ऋ० १।५२।५ दयानन्दः] (औशिजः) ज्ञानप्रकाशसम्पन्नः “औशिजः य उशिजि प्रकाशे जातः सः” [ऋ० १।१८।१ दयानन्दः] (अस्य) परमात्मनः (स्तोमेभिः) स्तुतिवचनैः (पिप्रोः) पुनः पुनः पालनीयस्य शरीरस्य-पृधातोरौणादिकः कुः प्रत्ययः श्लुवच्च (वृषभेण) सुखवर्षकधर्मेण (व्रजं दरयत्) इन्द्रियसमूहम् “व्रजं समूहम्” [ऋ० १।१०।७ दयानन्दः] वृत्तिनिरोधेन दृणाति-विदारयति (यत्) यदा (यजतः-सुत्वा) सङ्गन्ता-अध्यात्मयाजकः (गीः-दीदयत्) स्तुतीः प्रकाशयति (पुरः-इयानः) मनः-प्रभृतीनि-अन्तःकरणानि “मन एव पुरः” [काठ० १०।३।५।७] प्राप्नुवन् (वर्पसा-अभिभूत्) स्वरूपेण निर्मलो भवति ॥११॥