ऋग्वेद - मण्डल 10/ सूक्त 99/ मन्त्र 12
ए॒वा म॒हो अ॑सुर व॒क्षथा॑य वम्र॒कः प॒ड्भिरुप॑ सर्प॒दिन्द्र॑म् । स इ॑या॒नः क॑रति स्व॒स्तिम॑स्मा॒ इष॒मूर्जं॑ सुक्षि॒तिं विश्व॒माभा॑: ॥
स्वर सहित पद पाठए॒व । म॒हः । अ॒सु॒र॒ । व॒क्षथा॑य । व॒म्र॒कः । प॒ट्ऽभिः । उप॑ । स॒र्प॒त् । इन्द्र॑म् । सः । इ॒या॒नः । क॒र॒ति॒ । स्व॒स्तिम् । अ॒स्मै॒ । इष॑म् । ऊर्ज॑म् । सु॒ऽक्षि॒तिम् । विश्व॑म् । आ । अ॒भा॒रित्य॑भाः ॥
स्वर रहित मन्त्र
एवा महो असुर वक्षथाय वम्रकः पड्भिरुप सर्पदिन्द्रम् । स इयानः करति स्वस्तिमस्मा इषमूर्जं सुक्षितिं विश्वमाभा: ॥
स्वर रहित पद पाठएव । महः । असुर । वक्षथाय । वम्रकः । पट्ऽभिः । उप । सर्पत् । इन्द्रम् । सः । इयानः । करति । स्वस्तिम् । अस्मै । इषम् । ऊर्जम् । सुऽक्षितिम् । विश्वम् । आ । अभारित्यभाः ॥ १०.९९.१२
ऋग्वेद - मण्डल » 10; सूक्त » 99; मन्त्र » 12
अष्टक » 8; अध्याय » 5; वर्ग » 15; मन्त्र » 6
अष्टक » 8; अध्याय » 5; वर्ग » 15; मन्त्र » 6
पदार्थः -
(एव) एवं (महः-असुर) हे महन् प्राणदातः ! परमात्मन् ! (वक्षथाय) संसारस्य वहनकर्त्रे त्वत्प्राप्तये (वम्रकः) अयं भोगान् पुनः पुनर्वमनवद् ग्रहणकर्त्ता (पड्भिः-इन्द्रम्-उप सर्पत्) पादक्रमैरिवाध्यात्मपादैर्प्रापणैरङ्गैः-योगाङ्गैः परमात्मानमुपगच्छति (सः-इयानः) स परमात्मा प्राप्यमाणः (अस्मै) अस्मै-आत्मसमर्पिणे जीवात्मने (स्वस्तिम्-इषम्-ऊर्जं सुक्षितिं करति) कल्याणमन्नं रसं सुनिवासं स्वाधारे करोति सम्पादयति। “उ स्थाने शप् व्यत्ययेन” (विश्वम्-आभाः) सर्वं वस्तु खल्वाभरति ददाति ॥१२॥