अथर्ववेद - काण्ड 10/ सूक्त 6/ मन्त्र 31
सूक्त - बृहस्पतिः
देवता - फालमणिः, वनस्पतिः
छन्दः - त्र्यवसाना षट्पदा जगती
सूक्तम् - मणि बन्धन सूक्त
उत्त॑रं द्विष॒तो माम॒यं म॒णिः कृ॑णोतु देव॒जाः। यस्य॑ लो॒का इ॒मे त्रयः॒ पयो॑ दु॒ग्धमु॒पास॑ते। स मा॒यमधि॑ रोहतु म॒णिः श्रैष्ठ्या॑य मूर्ध॒तः ॥
स्वर सहित पद पाठउत्ऽत॑रम् । द्वि॒ष॒त: । माम् । अ॒यम् । म॒णि: । कृ॒णो॒तु॒ । दे॒व॒ऽजा: । यस्य॑ । लो॒का: । इ॒मे । त्रय॑: । पय॑: । दु॒ग्धम् । उ॒प॒ऽआस॑ते । स: । मा॒ । अ॒यम् । अधि॑ । रो॒ह॒तु॒ । म॒णि: । श्रैष्ठ्या॑य । मू॒र्ध॒त: ॥६.३१॥
स्वर रहित मन्त्र
उत्तरं द्विषतो मामयं मणिः कृणोतु देवजाः। यस्य लोका इमे त्रयः पयो दुग्धमुपासते। स मायमधि रोहतु मणिः श्रैष्ठ्याय मूर्धतः ॥
स्वर रहित पद पाठउत्ऽतरम् । द्विषत: । माम् । अयम् । मणि: । कृणोतु । देवऽजा: । यस्य । लोका: । इमे । त्रय: । पय: । दुग्धम् । उपऽआसते । स: । मा । अयम् । अधि । रोहतु । मणि: । श्रैष्ठ्याय । मूर्धत: ॥६.३१॥
अथर्ववेद - काण्ड » 10; सूक्त » 6; मन्त्र » 31
Translation -
May this citron plant which is produced by the forces of nature and the prepared milk or juice of which the three kinds of creatures use, be fastened on my head for winning surpassing power.