अथर्ववेद - काण्ड 20/ सूक्त 11/ मन्त्र 4
इन्द्रः॑ स्व॒र्षा ज॒नय॒न्नहा॑नि जि॒गायो॒शिग्भिः॒ पृत॑ना अभि॒ष्टिः। प्रारो॑चय॒न्मन॑वे के॒तुमह्ना॒मवि॑न्द॒ज्ज्योति॑र्बृह॒ते रणा॑य ॥
स्वर सहित पद पाठइन्द्र॑: । स्व॒:ऽसा । ज॒नय॑न् । अहा॑नि । जि॒गाय॑ । उ॒शिक्ऽभि॑: । पृत॑ना: । अ॒भि॒ष्टि: ॥ प्र । अ॒रो॒च॒यत् । मन॑वे । के॒तुम् । अह्ना॑म् । अवि॑न्दत् । ज्योति॑: । बृ॒ह॒ते । रणा॑य ॥११.४॥
स्वर रहित मन्त्र
इन्द्रः स्वर्षा जनयन्नहानि जिगायोशिग्भिः पृतना अभिष्टिः। प्रारोचयन्मनवे केतुमह्नामविन्दज्ज्योतिर्बृहते रणाय ॥
स्वर रहित पद पाठइन्द्र: । स्व:ऽसा । जनयन् । अहानि । जिगाय । उशिक्ऽभि: । पृतना: । अभिष्टि: ॥ प्र । अरोचयत् । मनवे । केतुम् । अह्नाम् । अविन्दत् । ज्योति: । बृहते । रणाय ॥११.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 11; मन्त्र » 4
Translation -
Luminous mighty fire causing days (inform of sun) contacting through scorching flames conquers the battle. This illumines the dawns, resplendence for man and attains the light for the happiness of the people.