अथर्ववेद - काण्ड 20/ सूक्त 17/ मन्त्र 6
विशं॑विशं म॒घवा॒ पर्य॑शायत॒ जना॑नां॒ धेना॑ अव॒चाक॑श॒द्वृषा॑। यस्याह॑ श॒क्रः सव॑नेषु॒ रण्य॑ति॒ स ती॒व्रैः सोमैः॑ सहते पृतन्य॒तः ॥
स्वर सहित पद पाठविश॑म्ऽविशम् । म॒घऽवा॑ । परि॑ । अ॒शा॒य॒त॒ । जना॑नाम् । धेना॑: । अ॒व॒ऽचाक॑शत् । वृषा॑ ॥ यस्य॑ । अह॑ । श॒क्र: । सव॑नेषु । रण्य॑ति । स: । ती॒व्रै: । सोमै॑: । स॒ह॒ते॒ । पृ॒त॒न्य॒त: ॥१७.६॥
स्वर रहित मन्त्र
विशंविशं मघवा पर्यशायत जनानां धेना अवचाकशद्वृषा। यस्याह शक्रः सवनेषु रण्यति स तीव्रैः सोमैः सहते पृतन्यतः ॥
स्वर रहित पद पाठविशम्ऽविशम् । मघऽवा । परि । अशायत । जनानाम् । धेना: । अवऽचाकशत् । वृषा ॥ यस्य । अह । शक्र: । सवनेषु । रण्यति । स: । तीव्रै: । सोमै: । सहते । पृतन्यत: ॥१७.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 17; मन्त्र » 6
Translation -
Almighty God pervades the subjects each in each. He, the vigorous one has His watch over the words of all the people. He, the strongest and wisest one whomsoever, persuades in the Yajnas, he (that man) with potent creative powers vanquishes his internal foes the passion, averson etc.