अथर्ववेद - काण्ड 20/ सूक्त 17/ मन्त्र 7
आपो॒ न सिन्धु॑म॒भि यत्स॒मक्ष॑र॒न्त्सोमा॑स॒ इन्द्रं॑ कु॒ल्या इ॑व ह्र॒दम्। वर्ध॑न्ति॒ विप्रा॒ महो॑ अस्य॒ साद॑ने॒ यवं॒ न वृ॒ष्टिर्दि॒व्येन॒ दानु॑ना ॥
स्वर सहित पद पाठआप॑: । न । सिन्धु॑म् । अ॒भि । यत् । स॒म्ऽअक्ष॑रन् । सोमा॑स । इन्द्र॑म् । कु॒ल्या:ऽइ॑व । ह्र॒दम् ॥ वर्ध॑न्ति । विप्रा॑: । मह॑: । अ॒स्य॒ । सद॑ने । यव॑म् । न । वृ॒ष्टि: । दि॒व्येन॑ । दानु॑ना ॥१७.७॥
स्वर रहित मन्त्र
आपो न सिन्धुमभि यत्समक्षरन्त्सोमास इन्द्रं कुल्या इव ह्रदम्। वर्धन्ति विप्रा महो अस्य सादने यवं न वृष्टिर्दिव्येन दानुना ॥
स्वर रहित पद पाठआप: । न । सिन्धुम् । अभि । यत् । सम्ऽअक्षरन् । सोमास । इन्द्रम् । कुल्या:ऽइव । ह्रदम् ॥ वर्धन्ति । विप्रा: । मह: । अस्य । सदने । यवम् । न । वृष्टि: । दिव्येन । दानुना ॥१७.७॥
अथर्ववेद - काण्ड » 20; सूक्त » 17; मन्त्र » 7
Translation -
As waters flow toward the ocean, as the rivulets to the lake so the learned men exalt the power of Almighty God in the place of Yajna, as the rain increases the barley corns by the moisture poured from heaven.