अथर्ववेद - काण्ड 3/ सूक्त 11/ मन्त्र 4
सूक्त - ब्रह्मा, भृग्वङ्गिराः
देवता - इन्द्राग्नी, आयुः, यक्ष्मनाशनम्
छन्दः - शक्वरीगर्भा जगती
सूक्तम् - दीर्घायुप्राप्ति सूक्त
श॒तं जी॑व श॒रदो॒ वर्ध॑मानः श॒तं हे॑म॒न्तान्छ॒तमु॑ वस॒न्तान्। श॒तं त॒ इन्द्रो॑ अ॒ग्निः स॑वि॒ता बृह॒स्पतिः॑ श॒तायु॑षा ह॒विषाहा॑र्षमेनम् ॥
स्वर सहित पद पाठश॒तम् । जी॒व॒ । श॒रद॑: । वर्ध॑मान: । श॒तम् । हे॒म॒न्तान् । श॒तम् । ऊं॒ इति॑ । व॒स॒न्तान् ।श॒तम् । ते॒ । इन्द्र॑: । अ॒ग्नि: । स॒वि॒ता । बृह॒स्पति॑: । श॒तऽआ॑युषा । ह॒विषा॑ । आ । अ॒हा॒र्ष॒म् । ए॒न॒म् ॥११.४॥
स्वर रहित मन्त्र
शतं जीव शरदो वर्धमानः शतं हेमन्तान्छतमु वसन्तान्। शतं त इन्द्रो अग्निः सविता बृहस्पतिः शतायुषा हविषाहार्षमेनम् ॥
स्वर रहित पद पाठशतम् । जीव । शरद: । वर्धमान: । शतम् । हेमन्तान् । शतम् । ऊं इति । वसन्तान् ।शतम् । ते । इन्द्र: । अग्नि: । सविता । बृहस्पति: । शतऽआयुषा । हविषा । आ । अहार्षम् । एनम् ॥११.४॥
अथर्ववेद - काण्ड » 3; सूक्त » 11; मन्त्र » 4
Translation -
O’ patient live a hundred autumn’s growing in Strength, live through a hundred winters and a hundred springs. May the air, fire, Sun and cloud give you the life of hundred years, as I save you from the grip of disease with the medicine giving life lasting hundred years.