अथर्ववेद - काण्ड 4/ सूक्त 34/ मन्त्र 3
सूक्त - अथर्वा
देवता - ब्रह्मौदनम्
छन्दः - त्रिष्टुप्
सूक्तम् - ब्रह्मौदन सूक्त
वि॑ष्टा॒रिण॑मोद॒नं ये पच॑न्ति॒ नैना॒नव॑र्तिः सचते क॒दा च॒न। आस्ते॑ य॒म उप॑ याति दे॒वान्त्सं ग॑न्ध॒र्वैर्म॑दते सो॒म्येभिः॑ ॥
स्वर सहित पद पाठवि॒ष्टा॒रिण॑म् । ओ॒द॒नम् । ये । पच॑न्ति । न । ए॒ना॒न् । अव॑र्ति: । स॒च॒ते॒ । क॒दा । च॒न । आस्ते॑ । य॒मे । उप॑ । या॒ति॒ । दे॒वान् । सम् । ग॒न्ध॒र्वै: । म॒द॒ते॒ । सो॒म्येभि॑: ॥३४.३॥
स्वर रहित मन्त्र
विष्टारिणमोदनं ये पचन्ति नैनानवर्तिः सचते कदा चन। आस्ते यम उप याति देवान्त्सं गन्धर्वैर्मदते सोम्येभिः ॥
स्वर रहित पद पाठविष्टारिणम् । ओदनम् । ये । पचन्ति । न । एनान् । अवर्ति: । सचते । कदा । चन । आस्ते । यमे । उप । याति । देवान् । सम् । गन्धर्वै: । मदते । सोम्येभि: ॥३४.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 34; मन्त्र » 3
Translation -
Never any evil or misfortune visits them who prepare this oblation element for the purpose of Vistarin Yajna. Such a man lives in obstention, attain good qualities and enjoys the company of generous men of enlightenment.