अथर्ववेद - काण्ड 5/ सूक्त 2/ मन्त्र 9
सूक्त - बृहद्दिवोऽथर्वा
देवता - वरुणः
छन्दः - भुरिक्परातिजागता त्रिष्टुप्
सूक्तम् - भुवनज्येष्ठ सूक्त
ए॒वा म॒हान्बृ॒हद्दि॑वो॒ अथ॒र्वावो॑च॒त्स्वां त॒न्वमिन्द्र॑मे॒व। स्वसा॑रौ मात॒रिभ्व॑री अरि॒प्रे हि॒न्वन्ति॑ चैने॒ शव॑सा व॒र्धय॑न्ति च ॥
स्वर सहित पद पाठए॒व । म॒हान् । बृ॒हत्ऽदि॑व: । अथ॑र्वा । अवो॑चत् । स्वाम् । त॒न्व᳡म् । इन्द्र॑म् । ए॒व । स्वसा॑रौ । मा॒त॒रिभ्व॑री॒ इति॑ । अ॒रि॒प्रे इति॑ । हि॒न्वन्ति॑ । च॒ । ए॒ने॒ इति॑ । शव॑सा । व॒र्धय॑न्ति । च॒ ॥२.९॥
स्वर रहित मन्त्र
एवा महान्बृहद्दिवो अथर्वावोचत्स्वां तन्वमिन्द्रमेव। स्वसारौ मातरिभ्वरी अरिप्रे हिन्वन्ति चैने शवसा वर्धयन्ति च ॥
स्वर रहित पद पाठएव । महान् । बृहत्ऽदिव: । अथर्वा । अवोचत् । स्वाम् । तन्वम् । इन्द्रम् । एव । स्वसारौ । मातरिभ्वरी इति । अरिप्रे इति । हिन्वन्ति । च । एने इति । शवसा । वर्धयन्ति । च ॥२.९॥
अथर्ववेद - काण्ड » 5; सूक्त » 2; मन्त्र » 9
Translation -
In this way, the highly enlightened man, firm in his decision, offers his prayers only to Almighty God. Like two sisters these night and day present in the Sky and these heaven and earth with vigor become the sources of impelling him onward and exalting him.