अथर्ववेद - काण्ड 5/ सूक्त 29/ मन्त्र 12
सूक्त - चातनः
देवता - जातवेदाः
छन्दः - भुरिगनुष्टुप्
सूक्तम् - रक्षोघ्न सूक्त
स॒माह॑र जातवेदो॒ यद्धृ॒तं यत्परा॑भृतम्। गात्रा॑ण्यस्य वर्धन्तामं॒शुरि॒वा प्या॑यताम॒यम् ॥
स्वर सहित पद पाठस॒म्ऽआह॑र । जा॒त॒ऽवे॒द॒: । यत् । हृ॒तम् । यत् । परा॑ऽभृतम् । गात्रा॑णि । अ॒स्य॒ । व॒र्ध॒न्ता॒म् । अं॒शु:ऽइ॑व । आ । प्या॒य॒ता॒म् । अ॒यम् ॥२९.१२॥
स्वर रहित मन्त्र
समाहर जातवेदो यद्धृतं यत्पराभृतम्। गात्राण्यस्य वर्धन्तामंशुरिवा प्यायतामयम् ॥
स्वर रहित पद पाठसम्ऽआहर । जातऽवेद: । यत् । हृतम् । यत् । पराऽभृतम् । गात्राणि । अस्य । वर्धन्ताम् । अंशु:ऽइव । आ । प्यायताम् । अयम् ॥२९.१२॥
अथर्ववेद - काण्ड » 5; सूक्त » 29; मन्त्र » 12
Translation -
O learned physician! restore him whatever has taken away from his body and whatever has been born off. Let the members of the patient grow and let him grow like the phase of the moon.