Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 98/ मन्त्र 2
सूक्त - अथर्वा
देवता - इन्द्रः
छन्दः - बृहतीगर्भा प्रस्तारपङ्क्तिः
सूक्तम् - विजयी राजा
त्वमि॑न्द्राधिरा॒जः श्र॑व॒स्युस्त्वं भू॑र॒भिभू॑ति॒र्जना॑नाम्। त्वं दैवी॑र्विश इ॒मा वि रा॒जायु॑ष्मत्क्ष॒त्रम॒जरं॑ ते अस्तु ॥
स्वर सहित पद पाठत्वम् । इ॒न्द्र॒ । अ॒धि॒ऽरा॒ज: । श्र॒व॒स्यु: । त्वम् । भू॒: । अ॒भिऽभू॑ति: । जना॑नाम् । त्वम् । दैवी॑: । विश॑: । इ॒मा: । वि । रा॒ज॒ । आयु॑ष्मत् । क्ष॒त्रम् । अ॒जर॑म् । ते॒ । अ॒स्तु॒ ॥९८.२॥
स्वर रहित मन्त्र
त्वमिन्द्राधिराजः श्रवस्युस्त्वं भूरभिभूतिर्जनानाम्। त्वं दैवीर्विश इमा वि राजायुष्मत्क्षत्रमजरं ते अस्तु ॥
स्वर रहित पद पाठत्वम् । इन्द्र । अधिऽराज: । श्रवस्यु: । त्वम् । भू: । अभिऽभूति: । जनानाम् । त्वम् । दैवी: । विश: । इमा: । वि । राज । आयुष्मत् । क्षत्रम् । अजरम् । ते । अस्तु ॥९८.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 98; मन्त्र » 2
Translation -
O Almighty Lord! Thou enjoyest the imperial majesty over all the dominating powers, Thon art glorious, Thou art the supreme power over the creatures of the world, Thou governest all these powerful universal forces and Thy governance is long lasting and undecaying.