Loading...
अथर्ववेद > काण्ड 7 > सूक्त 20

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 20/ मन्त्र 3
    सूक्त - ब्रह्मा देवता - अनुमतिः छन्दः - त्रिष्टुप् सूक्तम् - अनुमति सूक्त

    अनु॑ मन्यतामनु॒मन्य॑मानः प्र॒जाव॑न्तं र॒यिमक्षी॑यमाणम्। तस्य॑ व॒यं हेड॑सि॒ मापि॑ भूम सुमृडी॒के अ॑स्य सुम॒तौ स्या॑म ॥

    स्वर सहित पद पाठ

    अनु॑ । म॒न्य॒ता॒म् । अ॒नु॒ऽमन्य॑मान: । प्र॒जाऽव॑न्तम् । र॒यिम् । अक्षी॑यमाणम् । तस्य॑ । व॒यम् । हेड॑सि । मा । अपि॑ । भू॒म॒ । सु॒ऽमृ॒डी॒के । अ॒स्य॒ । सु॒ऽम॒तौ । स्या॒म॒ ॥२१.३॥


    स्वर रहित मन्त्र

    अनु मन्यतामनुमन्यमानः प्रजावन्तं रयिमक्षीयमाणम्। तस्य वयं हेडसि मापि भूम सुमृडीके अस्य सुमतौ स्याम ॥

    स्वर रहित पद पाठ

    अनु । मन्यताम् । अनुऽमन्यमान: । प्रजाऽवन्तम् । रयिम् । अक्षीयमाणम् । तस्य । वयम् । हेडसि । मा । अपि । भूम । सुऽमृडीके । अस्य । सुऽमतौ । स्याम ॥२१.३॥

    अथर्ववेद - काण्ड » 7; सूक्त » 20; मन्त्र » 3

    Translation -
    May the Divinity approving my full-moon night yajna grant me inexhaustible wealth with lot of children. May we never be subject to His anger but rest always in his benevolence and good guidance.

    इस भाष्य को एडिट करें
    Top