Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 95/ मन्त्र 3
सूक्त - कपिञ्जलः
देवता - गृध्रौ
छन्दः - भुरिगनुष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
आ॑तो॒दिनौ॑ नितो॒दिना॒वथो॑ संतो॒दिना॑वु॒त। अपि॑ नह्याम्यस्य॒ मेढ्रं॒ य इ॒तः स्त्री पुमा॑ञ्ज॒भार॑ ॥
स्वर सहित पद पाठआ॒ऽतो॒दिनौ॑ । नि॒ऽतो॒दिनौ॑ । अथो॒ इति॑ । स॒म्ऽतो॒दिनौ॑ । उ॒त । अपि॑ । न॒ह्या॒मि॒। अ॒स्य॒ । मेढ्र॑म् । य: । इ॒त: । स्त्री । पुमा॑न् । ज॒भार॑ ॥१००.३॥
स्वर रहित मन्त्र
आतोदिनौ नितोदिनावथो संतोदिनावुत। अपि नह्याम्यस्य मेढ्रं य इतः स्त्री पुमाञ्जभार ॥
स्वर रहित पद पाठआऽतोदिनौ । निऽतोदिनौ । अथो इति । सम्ऽतोदिनौ । उत । अपि । नह्यामि। अस्य । मेढ्रम् । य: । इत: । स्त्री । पुमान् । जभार ॥१००.३॥
अथर्ववेद - काण्ड » 7; सूक्त » 95; मन्त्र » 3
Translation -
Like two things that thrust, like two things that pierce and like two things that strike mutual blows I bind the flowing energy of the man or woman who Possess it.