अथर्ववेद - काण्ड 8/ सूक्त 5/ मन्त्र 21
सूक्त - शुक्रः
देवता - कृत्यादूषणम् अथवा मन्त्रोक्ताः
छन्दः - पराविराट्त्रिष्टुप्
सूक्तम् - प्रतिसरमणि सूक्त
अ॒स्मिन्निन्द्रो॒ नि द॑धातु नृ॒म्णमि॒मं दे॑वासो अभि॒संवि॑शध्वम्। दी॑र्घायु॒त्वाय॑ श॒तशा॑रदा॒यायु॑ष्माञ्ज॒रद॑ष्टि॒र्यथास॑त् ॥
स्वर सहित पद पाठअ॒स्मिन् । इन्द्र॑: । नि । द॒धा॒तु॒ । नृ॒म्णम् । इ॒मम् । दे॒वा॒स॒: । अ॒भि॒ऽसंवि॑शध्वम् । दी॒र्घा॒यु॒ऽत्वाय॑ । श॒तऽशा॑रदाय । आयु॑ष्मान् । ज॒रत्ऽअ॑ष्टि: । यथा॑ । अस॑त् ॥५.२१॥
स्वर रहित मन्त्र
अस्मिन्निन्द्रो नि दधातु नृम्णमिमं देवासो अभिसंविशध्वम्। दीर्घायुत्वाय शतशारदायायुष्माञ्जरदष्टिर्यथासत् ॥
स्वर रहित पद पाठअस्मिन् । इन्द्र: । नि । दधातु । नृम्णम् । इमम् । देवास: । अभिऽसंविशध्वम् । दीर्घायुऽत्वाय । शतऽशारदाय । आयुष्मान् । जरत्ऽअष्टि: । यथा । असत् ॥५.२१॥
अथर्ववेद - काण्ड » 8; सूक्त » 5; मन्त्र » 21
Translation -
May Almighty Divinity store in this King the strength, geneus and prosperity for his long life to last a hundred autumn. Let all the physical forces enter in him so that he may be long-lived and matured with old age.