अथर्ववेद - काण्ड 9/ सूक्त 4/ मन्त्र 11
य इन्द्र॑ इव दे॒वेषु॒ गोष्वे॑ति वि॒वाव॑दत्। तस्य॑ ऋष॒भस्याङ्गा॑नि ब्र॒ह्मा सं स्तौ॑तु भ॒द्रया॑ ॥
स्वर सहित पद पाठय: । इन्द्र॑:ऽइव । दे॒वेषु॑ । गोषु॑ । एति॑ । वि॒ऽवाव॑दत् । तस्य॑ । ऋ॒ष॒भस्य॑ । अङ्गा॑नि । ब्र॒ह्मा । सम् । स्तौ॒तु॒ । भ॒द्रया॑ ॥४.११॥
स्वर रहित मन्त्र
य इन्द्र इव देवेषु गोष्वेति विवावदत्। तस्य ऋषभस्याङ्गानि ब्रह्मा सं स्तौतु भद्रया ॥
स्वर रहित पद पाठय: । इन्द्र:ऽइव । देवेषु । गोषु । एति । विऽवावदत् । तस्य । ऋषभस्य । अङ्गानि । ब्रह्मा । सम् । स्तौतु । भद्रया ॥४.११॥
अथर्ववेद - काण्ड » 9; सूक्त » 4; मन्त्र » 11
Translation -
Let the master of the four Vedas describe through the Vedic speech the nature and properties of all the parts of the world of that almighty God who, like an ascetic preaching, comes to learned men and the priests of the yajnas.