अथर्ववेद - काण्ड 9/ सूक्त 4/ मन्त्र 5
दे॒वानां॑ भा॒ग उ॑पना॒ह ए॒षो॒पां रस॒ ओष॑धीनां घृ॒तस्य॑। सोम॑स्य भ॒क्षम॑वृणीत श॒क्रो बृ॒हन्नद्रि॑रभव॒द्यच्छरी॑रम् ॥
स्वर सहित पद पाठदे॒वाना॑म् । भा॒ग: । उ॒प॒ऽना॒ह: । ए॒ष: । अ॒पाम् । रस॑: । ओष॑धीनाम् । घृ॒तस्य॑ । सोम॑स्य । भ॒क्षम् । अ॒वृ॒णी॒त॒ । श॒क्र: । बृ॒हन् । अद्रि॑: । अ॒भ॒व॒त् । यत् । शरी॑रम् ॥४.५॥
स्वर रहित मन्त्र
देवानां भाग उपनाह एषोपां रस ओषधीनां घृतस्य। सोमस्य भक्षमवृणीत शक्रो बृहन्नद्रिरभवद्यच्छरीरम् ॥
स्वर रहित पद पाठदेवानाम् । भाग: । उपऽनाह: । एष: । अपाम् । रस: । ओषधीनाम् । घृतस्य । सोमस्य । भक्षम् । अवृणीत । शक्र: । बृहन् । अद्रि: । अभवत् । यत् । शरीरम् ॥४.५॥
अथर्ववेद - काण्ड » 9; सूक्त » 4; मन्त्र » 5
Translation -
He is the abode and store of noble qualities, He pervading all the things is like the essence of waters, herbs and ghee. Omnipotent he consumes the world at the time of dissolution and these great mountains and clouds are his body.