अथर्ववेद - काण्ड 2/ सूक्त 13/ मन्त्र 5
सूक्त - अथर्वा
देवता - विश्वदेवाः
छन्दः - विराड्जगती
सूक्तम् - दीर्घायु प्राप्ति सूक्त
यस्य॑ ते॒ वासः॑ प्रथमवा॒स्यं॑१ हरा॑म॒स्तं त्वा॒ विश्वे॑ऽवन्तु दे॒वाः। तं त्वा॒ भ्रात॑रः सु॒वृधा॒ वर्ध॑मान॒मनु॑ जायन्तां ब॒हवः॒ सुजा॑तम् ॥
स्वर सहित पद पाठयस्य॑ । ते॒ । वास॑: । प्र॒थ॒म॒ऽवा॒स्य᳡म् । हरा॑म: । तम् । त्वा॒ । विश्वे॑ । अ॒व॒न्तु॒ । दे॒वा: । तम् । त्वा॒ । भ्रात॑र: । सु॒ऽवृधा॑ । वर्ध॑मानम् । अनु॑ । जा॒य॒न्ता॒म् । ब॒हव॑: । सुऽजा॑तम् ॥१३.५॥
स्वर रहित मन्त्र
यस्य ते वासः प्रथमवास्यं१ हरामस्तं त्वा विश्वेऽवन्तु देवाः। तं त्वा भ्रातरः सुवृधा वर्धमानमनु जायन्तां बहवः सुजातम् ॥
स्वर रहित पद पाठयस्य । ते । वास: । प्रथमऽवास्यम् । हराम: । तम् । त्वा । विश्वे । अवन्तु । देवा: । तम् । त्वा । भ्रातर: । सुऽवृधा । वर्धमानम् । अनु । जायन्ताम् । बहव: । सुऽजातम् ॥१३.५॥
अथर्ववेद - काण्ड » 2; सूक्त » 13; मन्त्र » 5
भाषार्थ -
हे ब्रह्मचारिन् ! (यस्य ते) जिस तेरे लिए (प्रथमवास्यम्) प्रथम पहिनने योग्य (वासः) वस्त्र को ( हराम: ) हम तेरे पितृपक्ष के लोग लाते हैं, (तम्, त्वा) उस तुझको (विश्वे देवा:) सब गुरुदेव (अवन्तु) सुरक्षित करें। (सुवृधा वर्धमानम्) उत्तमवृद्धि से बढ़ते हुए (तम् त्वा) उस तुझ के (अनु) पश्चात् (भ्रातरः) सतीर्थ्य भाई (बहवः) बहुसंख्या में (जायन्ताम्) हों, (सुजातम्) विद्यामाता से द्विजन्मा तुझको देखकर।
टिप्पणी -
[ब्रह्मचारी जब गुरुकुल में प्रविष्ट हो तो उसके प्रथम पहिनने के वस्त्र पितृपक्ष के लोग लाते हैं। ब्रह्मचारी द्विजन्मा बन कर जब स्नातक हो जाय, तब उसके पश्चात् भी जो ब्रह्मचारी गुरुकुल में प्रविष्ट होते रहें, उन्हें भी अपना सतीर्थ्य भाई बह समझता रहे तथा देखो ब्रह्मचर्यसूक्त (अथर्व० ११।५)।]