अथर्ववेद - काण्ड 2/ सूक्त 3/ मन्त्र 6
सूक्त - अङ्गिराः
देवता - भैषज्यम्, आयुः, धन्वन्तरिः
छन्दः - त्रिपात्स्वराडुपरिष्टान्महाबृहती
सूक्तम् - आस्रावभेषज सूक्त
शं नो॑ भवन्त्वा॒प ओष॑धयः शि॒वाः। इन्द्र॑स्य॒ वज्रो॒ अप॑ हन्तु र॒क्षस॑ आ॒राद्विसृ॑ष्टा॒ इष॑वः पतन्तु र॒क्षसा॑म् ॥
स्वर सहित पद पाठशम् । न॒: । भ॒व॒न्तु॒ । आ॒प: । ओष॑धय: । शि॒वा: । इन्द्र॑स्य । वज्र॑: । अप॑ । ह॒न्तु॒ । र॒क्षस॑: । आ॒रात् । विऽसृ॑ष्टा: । इष॑व: । प॒त॒न्तु॒ । र॒क्षसा॑म् ॥३.६॥
स्वर रहित मन्त्र
शं नो भवन्त्वाप ओषधयः शिवाः। इन्द्रस्य वज्रो अप हन्तु रक्षस आराद्विसृष्टा इषवः पतन्तु रक्षसाम् ॥
स्वर रहित पद पाठशम् । न: । भवन्तु । आप: । ओषधय: । शिवा: । इन्द्रस्य । वज्र: । अप । हन्तु । रक्षस: । आरात् । विऽसृष्टा: । इषव: । पतन्तु । रक्षसाम् ॥३.६॥
अथर्ववेद - काण्ड » 2; सूक्त » 3; मन्त्र » 6
भाषार्थ -
(अपः आपः) जलरूप (ओषधयः) ओषधियाँ (नः) हमारे लिए (शिवाः) कल्याणकारी, तथा (शम्) रोगशामक हों। (इन्द्रस्य वचः) मेघस्थ विद्युत् का वज्र (रक्षसः) रोगरूपी राक्षस का (अपहन्तु) अपहनन करे, (रक्षसाम्) रोगकीटाणुओं के (विसृष्टाः) प्रयुक्त (इपब:) रोगरूपी इषु (आराद्) हमसे दूर (पतन्तु) गिरें, हम पर प्रहार न करें ।
टिप्पणी -
[इन्द्रस्य वज्र:= मेघस्थ विद्युत्। अतः अपः= आप: को ओषधियाँ कहा है। आप: स्त्रीलिङ्गी बहुवचनान्त है ओषधयः भी स्त्रीलिङ्गी बहुवचनान्त है। आप: को सर्वौषध कहने के अभिप्राय से मन्त्र में आप: का पुनः कथन हुआ है (मन्त्र १)।]