Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 75/ मन्त्र 3
आदित्ते॑ अ॒स्य वी॒र्यस्य चर्किर॒न्मदे॑षु वृषन्नु॒शिजो॒ यदावि॑थ सखिय॒तो यदावि॑थ। च॒कर्थ॑ का॒रमे॑भ्यः॒ पृत॑नासु॒ प्रव॑न्तवे। ते अ॒न्याम॑न्यां न॒द्यं सनिष्णत॒ श्रव॒स्यन्तः॑ सनिष्णत ॥
स्वर सहित पद पाठआत् । इत् । ते॒ । अ॒स्य । वी॒र्य॑स्य । च॒र्कि॒र॒न् । मदे॑षु । वृ॒ष॒न् । उ॒शिज॑: । यत् । आवि॑थ: । स॒खि॒ऽय॒त: । यत् । आवि॑थ ॥ च॒कर्थ॑ । का॒रम् । ए॒भ्य॒: । पृत॑नासु । प्रऽव॑न्तवे ॥ ते । अ॒न्याम्ऽअ॑न्याम् । न॒द्य॑म् । स॒नि॒ष्ण॒त॒ । अ॒व॒स्यन्त॑: । स॒नि॒ष्ण॒त॒ ॥७५.३॥
स्वर रहित मन्त्र
आदित्ते अस्य वीर्यस्य चर्किरन्मदेषु वृषन्नुशिजो यदाविथ सखियतो यदाविथ। चकर्थ कारमेभ्यः पृतनासु प्रवन्तवे। ते अन्यामन्यां नद्यं सनिष्णत श्रवस्यन्तः सनिष्णत ॥
स्वर रहित पद पाठआत् । इत् । ते । अस्य । वीर्यस्य । चर्किरन् । मदेषु । वृषन् । उशिज: । यत् । आविथ: । सखिऽयत: । यत् । आविथ ॥ चकर्थ । कारम् । एभ्य: । पृतनासु । प्रऽवन्तवे ॥ ते । अन्याम्ऽअन्याम् । नद्यम् । सनिष्णत । अवस्यन्त: । सनिष्णत ॥७५.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 75; मन्त्र » 3
भाषार्थ -
(वृषन्) हे आनन्दरसवर्षी परमेश्वर! (यद्) जब आप, (उशिजः) आपकी प्राप्ति की कामनावाले मेधावी उपासकों की (आविथ) रक्षा करते हैं, (यद् सखीयतः) और जब सखिभूत इन उपासकों की (आविथ) रक्षा करते हैं, (आत् इत्) तब (मदेषु) भक्तिरसों की मस्तियों में आकर ये उपासक, (ते) आप के (अस्य) इस (वीर्यस्य) सामर्थ्य की (चर्किरन्) सर्वत्र चर्चा करते हैं। (पृतनासु) देवासुर-संग्रामों के उपस्थित हो जाने पर आप, (एभ्यः) इन कामनावालों और अपने सखियों के लिए (कारम्) नई-नई क्रियाशक्ति (चकर्थ) प्रदान करते हैं, (प्रवन्तवे) ताकि ये अधिकाधिक भक्ति-प्रवण हो सकें। तब (ते) वे (अन्याम्-अन्याम्) प्रतिदिन की नई-नई (नद्यम्) भक्तिरस-रसीली चित्त-नदियों में (सनिष्णत) स्नान करते रहते हैं। और (श्रवस्यन्तः) यशस्वी बनकर (सनिष्णत) अधिकाधिक स्नान करते हैं।
टिप्पणी -
[नद्यम्=नद्याम्।]