अथर्ववेद - काण्ड 3/ सूक्त 24/ मन्त्र 4
सूक्त - भृगुः
देवता - वनस्पतिः, प्रजापतिः
छन्दः - अनुष्टुप्
सूक्तम् - समृद्धि प्राप्ति सूक्त
उदुत्सं॑ श॒तधा॑रं स॒हस्र॑धार॒मक्षि॑तम्। ए॒वास्माके॒दं धा॒न्यं॑ स॒हस्र॑धार॒मक्षि॑तम् ॥
स्वर सहित पद पाठउत् । उत्स॑म् । श॒तऽधा॑रम् । स॒हस्र॑ऽधारम् । अक्षि॑तम् । ए॒व । अ॒स्माक॑ । इ॒दम् । धा॒न्य᳡म् । स॒हस्र॑ऽधारम् । अक्षि॑तम् ॥२४.४॥
स्वर रहित मन्त्र
उदुत्सं शतधारं सहस्रधारमक्षितम्। एवास्माकेदं धान्यं सहस्रधारमक्षितम् ॥
स्वर रहित पद पाठउत् । उत्सम् । शतऽधारम् । सहस्रऽधारम् । अक्षितम् । एव । अस्माक । इदम् । धान्यम् । सहस्रऽधारम् । अक्षितम् ॥२४.४॥
अथर्ववेद - काण्ड » 3; सूक्त » 24; मन्त्र » 4
भाषार्थ -
(उत्सम्) जैसेकि चश्मा, (शतधारम् सहस्रधारम्) सौ धाराओं वाला तथा हजार धाराओंवाला (उत्) उद्धृत हुआ (अक्षितम्) क्षीण नहीं होता, (एव) इसी प्रकार (अस्माक=अस्माकम्) हमारा (इदम् धान्यम्) यह धान्य (अक्षितम्) क्षीण नहीं होता, (सहस्रधारम्) और हजारों का धारण-पोषण करता है। उत्=उद्भूतम् (सायण)।
टिप्पणी -
[मन्त्र २ में बहुधान्यम्, तथा मन्त्र ३ में स्फातिम् के कारण हमारा धान्य अक्षित है।]