अथर्ववेद - काण्ड 3/ सूक्त 5/ मन्त्र 7
सूक्त - अथर्वा
देवता - सोमः, पर्णमणिः
छन्दः - अनुष्टुप्
सूक्तम् - राजा ओर राजकृत सूक्त
ये राजा॑नो राज॒कृतः॑ सू॒ता ग्रा॑म॒ण्य॑श्च॒ ये। उ॑प॒स्तीन्प॑र्ण॒ मह्यं॒ त्वं सर्वा॑न्कृण्व॒भितो॒ जना॑न् ॥
स्वर सहित पद पाठये । राजा॑न: । रा॒ज॒ऽकृत॑: । सू॒ता: । ग्रा॒म॒ण्या᳡: । च॒ । ये । उ॒प॒ऽस्तीन् । प॒र्ण॒ । मह्य॑म् । त्वम् । सर्वा॑न् । कृ॒णु॒ । अ॒भित॑: । जना॑न् ॥५.७॥
स्वर रहित मन्त्र
ये राजानो राजकृतः सूता ग्रामण्यश्च ये। उपस्तीन्पर्ण मह्यं त्वं सर्वान्कृण्वभितो जनान् ॥
स्वर रहित पद पाठये । राजान: । राजऽकृत: । सूता: । ग्रामण्या: । च । ये । उपऽस्तीन् । पर्ण । मह्यम् । त्वम् । सर्वान् । कृणु । अभित: । जनान् ॥५.७॥
अथर्ववेद - काण्ड » 3; सूक्त » 5; मन्त्र » 7
भाषार्थ -
(वे) जो (राजानः) राजा हैं, (राजा कृतः) तथा [निर्वाचन द्वारा] राजाओं को करने वाली प्रजाएं हैं, (ये) जो (सुताः) प्रजाओं के प्रेरक नेता, (च) और (ग्रामण्यः) ग्रामों के नेता हैं, (सर्वान् तान्) आदि पूर्ववत् [मन्त्र ६।]
टिप्पणी -
[राजकृतः यथा "विशस्त्त्वा सर्वा वाच्छन्तु मा त्वद्राष्ट्रमधिभ्रशत्" (अथर्व० ६।८७।१); तथा सूक्त (८६-८८)।]