Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 66/ मन्त्र 1
सूक्त - अथर्वा
देवता - चन्द्रः, इन्द्रः
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
निर्ह॑स्तः॒ शत्रु॑रभि॒दास॑न्नस्तु॒ ये सेना॑भि॒र्युध॑मा॒यन्त्य॒स्मान्। सम॑र्पयेन्द्र मह॒ता व॒धेन॒ द्रात्वे॑षामघहा॒रो विवि॑द्धः ॥
स्वर सहित पद पाठनि:ऽह॑स्त: । शत्रु॑: । अ॒भि॒ऽदास॑न् । अ॒स्तु॒ । ये । सेना॑भि: । युध॑म् । आ॒ऽयन्ति॑ । अ॒स्मान् । सम् । अ॒र्प॒य॒ । इ॒न्द्र॒ । म॒ह॒ता । व॒धेन॑ । द्रातु॑ । ए॒षा॒म् । अ॒घ॒ऽहा॒र: । विऽवि॑ध्द: ॥६६.१॥
स्वर रहित मन्त्र
निर्हस्तः शत्रुरभिदासन्नस्तु ये सेनाभिर्युधमायन्त्यस्मान्। समर्पयेन्द्र महता वधेन द्रात्वेषामघहारो विविद्धः ॥
स्वर रहित पद पाठनि:ऽहस्त: । शत्रु: । अभिऽदासन् । अस्तु । ये । सेनाभि: । युधम् । आऽयन्ति । अस्मान् । सम् । अर्पय । इन्द्र । महता । वधेन । द्रातु । एषाम् । अघऽहार: । विऽविध्द: ॥६६.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 66; मन्त्र » 1
भाषार्थ -
(अभिदासन्) हमारा उपक्षय करता हुआ (शत्रु:) शत्रु दल (निर्हस्तः अस्तु) निहत्था हो जाय, हथियारों से रहित हो जाय, (ये) जो शत्रु कि (सेनाभिः) सेनाओं के साथ (अस्मान् युधम्) हमारे साथ युद्ध के लिये (आयन्ति) आते हैं। (इन्द्र) हे सम्राट् (महता वधेन) महावधकारी आयुध के साथ इन्हें (समर्पय) सम्बद्ध कर, (एषाम्) इन शत्रुओं में (अघहारः) पापी शत्रु (विविद्ध:) विशेषतया बींधा हुआ (द्रातु) कुत्सित गति को प्राप्त हो।
टिप्पणी -
[अघहार:= पापी, जो कि सेनानायक है। द्रातु= द्वा कुत्सायां गतौ (अदादिः)]।