Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 92/ मन्त्र 3
त॒नूष्टे॑ वाजिन्त॒न्वं नय॑न्ती वा॒मम॒स्मभ्यं॒ धाव॑तु॒ शर्म॒ तुभ्य॑म्। अह्रु॑तो म॒हो ध॒रुणा॑य दे॒वो दि॒वीव॒ ज्योतिः॒ स्वमा मि॑मीयात् ॥
स्वर सहित पद पाठत॒नू॒: । ते॒ । वा॒जि॒न् । त॒न्व᳡म् । नय॑न्ती । वा॒मम् । अ॒स्मभ्य॑म् । धाव॑तु। शर्म॑ । तुभ्य॑म् । अह्रु॑त: । म॒ह: । ध॒रुणा॑य । दे॒व: । दि॒विऽइ॑व । ज्योति॑: । स्वम् । आ । मि॒मी॒या॒त्॥९२.३॥
स्वर रहित मन्त्र
तनूष्टे वाजिन्तन्वं नयन्ती वाममस्मभ्यं धावतु शर्म तुभ्यम्। अह्रुतो महो धरुणाय देवो दिवीव ज्योतिः स्वमा मिमीयात् ॥
स्वर रहित पद पाठतनू: । ते । वाजिन् । तन्वम् । नयन्ती । वामम् । अस्मभ्यम् । धावतु। शर्म । तुभ्यम् । अह्रुत: । मह: । धरुणाय । देव: । दिविऽइव । ज्योति: । स्वम् । आ । मिमीयात्॥९२.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 92; मन्त्र » 3
भाषार्थ -
(वाजिन्) हे वेग वाले अश्व ! (ते तनूः) तेरी तनू (तम्वम्) अश्वारोही की (तन्वम्) तनू को (नयन्ती) युद्ध भूमि में ले जाती हुई, (अस्मभ्यम्) हमारे लिये (वामम्) सुन्दर रूप में (धावतु) दौड़े, (तुभ्यम्) जोकि तेरे लिये भी (शर्म) सुख पहुंचाए। (महः) महान् [सौर मण्डल] के (धरुणाय) धारण के लिये (अह्रुतः) अकुटिल हुआ (देवः) द्युतिमान् सूर्य (इव) जैसे (दिवि) द्युलोक में या दिन में (स्वम्, ज्योतिः) निज ज्योति को (आ मिमीयात) पूर्णतया प्राप्त होता है [वैसे हे अश्व ! तू भी निज शक्ति को, वेग को प्राप्त हो]।
टिप्पणी -
[देवः= दानाद्वा दीपनाद्वा द्योतनाद्वा द्युस्थानो भवतीति वा (निरुक्त ७।४।१५)। शर्म सुखनाम (निघं० ३।६)। दिवि= दिवा अहर्नाम; दिवेदिवे अह्नाम (निघं० १।९)। मिमीयात्=मी गतौ (चूरादिः); गतेस्त्रयोऽर्थाः, दानम्, गतिः, प्राप्तिश्च। प्राप्त्यर्थ अभिप्रेत है।