Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 98/ मन्त्र 2
सूक्त - अथर्वा
देवता - इन्द्रः
छन्दः - बृहतीगर्भा प्रस्तारपङ्क्तिः
सूक्तम् - विजयी राजा
त्वमि॑न्द्राधिरा॒जः श्र॑व॒स्युस्त्वं भू॑र॒भिभू॑ति॒र्जना॑नाम्। त्वं दैवी॑र्विश इ॒मा वि रा॒जायु॑ष्मत्क्ष॒त्रम॒जरं॑ ते अस्तु ॥
स्वर सहित पद पाठत्वम् । इ॒न्द्र॒ । अ॒धि॒ऽरा॒ज: । श्र॒व॒स्यु: । त्वम् । भू॒: । अ॒भिऽभू॑ति: । जना॑नाम् । त्वम् । दैवी॑: । विश॑: । इ॒मा: । वि । रा॒ज॒ । आयु॑ष्मत् । क्ष॒त्रम् । अ॒जर॑म् । ते॒ । अ॒स्तु॒ ॥९८.२॥
स्वर रहित मन्त्र
त्वमिन्द्राधिराजः श्रवस्युस्त्वं भूरभिभूतिर्जनानाम्। त्वं दैवीर्विश इमा वि राजायुष्मत्क्षत्रमजरं ते अस्तु ॥
स्वर रहित पद पाठत्वम् । इन्द्र । अधिऽराज: । श्रवस्यु: । त्वम् । भू: । अभिऽभूति: । जनानाम् । त्वम् । दैवी: । विश: । इमा: । वि । राज । आयुष्मत् । क्षत्रम् । अजरम् । ते । अस्तु ॥९८.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 98; मन्त्र » 2
भाषार्थ -
(इन्द्र) हे सम्राट् ! (त्वम्) तू (अधिराजः) राजाधिराज है, (श्रवस्यु:) श्रवणीय कीर्तिमान् है, (त्वम्) तू (जनानाम्) सब जनों का (अभिभूतिः) पराभव कर्त्ता (भूः) है, [सब जनों में उत्कृष्ट है]। (त्वम्) तू (इमाः) इन (दैवीः विशः) दिव्यगुणों वाली प्रजाओं पर (विराज) विराजमान हो, शासन कर (ते) तेरा (क्षत्रम्) क्षात्रबल (आयुष्मत्) चिरकाल तक बना रहे, और (अजरम्) जरा रहित, यौवनशक्ति सम्पन्न (अस्तु) हो।
टिप्पणी -
[इन्द्राभेदेन राज्ञः स्तुतिः (सायणः)] ।