अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 2
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - सर्वाधारवर्णन सूक्त
कस्मा॒दङ्गा॑द्दीप्यते अ॒ग्निर॑स्य॒ कस्मा॒दङ्गा॑त्पवते मात॒रिश्वा॑। कस्मा॒दङ्गा॒द्वि मि॑मी॒तेऽधि॑ च॒न्द्रमा॑ म॒ह स्क॒म्भस्य॒ मिमा॑नो॒ अङ्ग॑म् ॥
स्वर सहित पद पाठकस्मा॑त् । अङ्गा॑त् । दी॒प्य॒ते॒ । अ॒ग्नि: । अ॒स्य॒ । कस्मा॑त् । अङ्गा॑त् । प॒व॒ते॒ । मा॒त॒रिश्वा॑ । कस्मा॑त् । अङ्गा॑त् । वि । मि॒मी॒ते॒ । अधि॑ । च॒न्द्रमा॑: । म॒ह: । स्क॒म्भस्य॑ । मिमा॑न: । अङ्ग॑म् ॥७.२॥
स्वर रहित मन्त्र
कस्मादङ्गाद्दीप्यते अग्निरस्य कस्मादङ्गात्पवते मातरिश्वा। कस्मादङ्गाद्वि मिमीतेऽधि चन्द्रमा मह स्कम्भस्य मिमानो अङ्गम् ॥
स्वर रहित पद पाठकस्मात् । अङ्गात् । दीप्यते । अग्नि: । अस्य । कस्मात् । अङ्गात् । पवते । मातरिश्वा । कस्मात् । अङ्गात् । वि । मिमीते । अधि । चन्द्रमा: । मह: । स्कम्भस्य । मिमान: । अङ्गम् ॥७.२॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 2
Translation -
Out of which part glows the light of fire? From which blows air? From which doth Moon shine, exhibiting the nature of Mighty God?