अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 11
सूक्त - काङ्कायनः
देवता - अर्बुदिः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - शत्रुनिवारण सूक्त
आ गृ॑ह्णीतं॒ सं बृ॑हतं प्राणापा॒नान्न्य॑र्बुदे। नि॑वा॒शा घोषाः॒ सं य॑न्त्व॒मित्रे॑षु समी॒क्षय॑न्रदि॒ते अ॑र्बुदे॒ तव॑ ॥
स्वर सहित पद पाठनि॒ऽवा॒शा: । घोषा॑: । सम् । य॒न्तु॒ । अ॒मित्रे॑षु । स॒म्ऽई॒क्षय॑न् । र॒दि॒ते । अ॒र्बु॒दे॒ । तव॑ ॥१.११॥
स्वर रहित मन्त्र
आ गृह्णीतं सं बृहतं प्राणापानान्न्यर्बुदे। निवाशा घोषाः सं यन्त्वमित्रेषु समीक्षयन्रदिते अर्बुदे तव ॥
स्वर रहित पद पाठनिऽवाशा: । घोषा: । सम् । यन्तु । अमित्रेषु । सम्ऽईक्षयन् । रदिते । अर्बुदे । तव ॥१.११॥
अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 11
Translation -
Attack them, both of you; bear of their vital breaths, O Nyarbudi and Arbudi! Let mingled shouts and echoing cries of woe come out of our foemen, seeing where thou hast pierced them, O Arbudi!