अथर्ववेद - काण्ड 13/ सूक्त 3/ मन्त्र 16
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - चतुरवसानाष्टपदाकृतिः
सूक्तम् - अध्यात्म सूक्त
शु॒क्रं व॑हन्ति॒ हर॑यो रघु॒ष्यदो॑ दे॒वं दि॒वि वर्च॑सा॒ भ्राज॑मानम्। यस्यो॒र्ध्वा दिवं॑ त॒न्वस्तप॑न्त्य॒र्वाङ्सु॒वर्णैः॑ पट॒रैर्वि भाति॑। तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑। उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
स्वर सहित पद पाठशु॒क्रम् । व॒ह॒न्ति॒ । हर॑य: । र॒घु॒ऽस्यद॑: । दे॒वम् । दि॒वि । वर्च॑सा । भ्राज॑मानम् । यस्य॑ । ऊ॒र्ध्वा: । दिव॑म् । त॒न्व᳡: । तप॑न्ति । अ॒र्वाङ् । सु॒ऽवर्णै॑: । प॒ट॒रै: । वि । भा॒ति॒ । तस्य॑ । दे॒वस्य॑ ॥ क्रु॒ध्दस्य॑ । ए॒तत् । आग॑: । य: । ए॒वम् । वि॒द्वांस॑म् । ब्रा॒ह्म॒णम् । जि॒नाति॑ । उत् । वे॒प॒य॒ । रो॒हि॒त॒ । प्र । क्षि॒णी॒हि॒ । ब्र॒ह्म॒ऽज्यस्य॑ । प्रति॑ । मु॒ञ्च॒ । पाशा॑न्। ॥२.१६॥
स्वर रहित मन्त्र
शुक्रं वहन्ति हरयो रघुष्यदो देवं दिवि वर्चसा भ्राजमानम्। यस्योर्ध्वा दिवं तन्वस्तपन्त्यर्वाङ्सुवर्णैः पटरैर्वि भाति। तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति। उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥
स्वर रहित पद पाठशुक्रम् । वहन्ति । हरय: । रघुऽस्यद: । देवम् । दिवि । वर्चसा । भ्राजमानम् । यस्य । ऊर्ध्वा: । दिवम् । तन्व: । तपन्ति । अर्वाङ् । सुऽवर्णै: । पटरै: । वि । भाति । तस्य । देवस्य ॥ क्रुध्दस्य । एतत् । आग: । य: । एवम् । विद्वांसम् । ब्राह्मणम् । जिनाति । उत् । वेपय । रोहित । प्र । क्षिणीहि । ब्रह्मऽज्यस्य । प्रति । मुञ्च । पाशान्। ॥२.१६॥
अथर्ववेद - काण्ड » 13; सूक्त » 3; मन्त्र » 16
Translation -
Highly active emancipated souls attain to the Refulgent God, aglow with splendor in the sky. Thousands of worlds high above created by Him illumine the heavens. He shines with nnumerable Suns of fine colour in the lower part of the universe. This God is wroth offended by the sinner who vexes the Brahman who hath gained this knowledge. Terrify him, O King, destroy him, entangle in thy snares the Brahman’s tyrant!