अथर्ववेद - काण्ड 13/ सूक्त 3/ मन्त्र 5
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - शाक्वरातिशाक्वरगर्भा सप्तपदा चतुरवसाना प्रकृतिः
सूक्तम् - अध्यात्म सूक्त
यस्मि॑न्वि॒राट्प॑रमे॒ष्ठी प्र॒जाप॑तिर॒ग्निर्वै॑श्वान॒रः स॒ह प॒ङ्क्त्या श्रि॒तः। यः पर॑स्य प्रा॒णं प॑र॒मस्य॒ तेज॑ आद॒दे। तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑। उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
स्वर सहित पद पाठयस्मि॑न् । वि॒ऽराट् । प॒र॒मे॒ऽस्थी । प्र॒जाऽप॑ति: । अ॒ग्नि: । वै॒श्वा॒न॒र: । स॒ह । प॒ङ्क्त्या । श्रि॒त: । य: । पर॑स्य । प्रा॒णम् । प॒र॒मस्य॑ । तेज॑: । आ॒ऽद॒दे । तस्य॑ । दे॒वस्य॑ ॥ क्रु॒ध्दस्य॑ । ए॒तत् । आग॑: । य: । ए॒वम् । वि॒द्वांस॑म् । ब्रा॒ह्म॒णम् । जि॒नाति॑ । उत् । वे॒प॒य॒ । रो॒हि॒त॒ । प्र । क्षि॒णी॒हि॒ । ब्र॒ह्म॒ऽज्यस्य॑ । प्रति॑ । मु॒ञ्च॒ । पाशा॑न् ॥३.५॥
स्वर रहित मन्त्र
यस्मिन्विराट्परमेष्ठी प्रजापतिरग्निर्वैश्वानरः सह पङ्क्त्या श्रितः। यः परस्य प्राणं परमस्य तेज आददे। तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति। उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥
स्वर रहित पद पाठयस्मिन् । विऽराट् । परमेऽस्थी । प्रजाऽपति: । अग्नि: । वैश्वानर: । सह । पङ्क्त्या । श्रित: । य: । परस्य । प्राणम् । परमस्य । तेज: । आऽददे । तस्य । देवस्य ॥ क्रुध्दस्य । एतत् । आग: । य: । एवम् । विद्वांसम् । ब्राह्मणम् । जिनाति । उत् । वेपय । रोहित । प्र । क्षिणीहि । ब्रह्मऽज्यस्य । प्रति । मुञ्च । पाशान् ॥३.५॥
अथर्ववेद - काण्ड » 13; सूक्त » 3; मन्त्र » 5
Translation -
In Whom the Earth, Water, Air, Fire, Atmosphere abide with the attributes of the organs of cognition. He Who hath taken under Him the breathing of distant humanity and the lustre of the Sun, this God is wroth offended by the sinner who vaxes the Brahman who hath gained this knowledge. Terrify him, O King, destroy him, entangle in thy snares the Brahman’s tyrant.
Footnote -
Organs of cognition: Ear, Nose, Eye, Tongue, Skin,. Attributes: Hearing,ISmell, Sight, Taste, Touch