अथर्ववेद - काण्ड 3/ सूक्त 15/ मन्त्र 4
सूक्त - अथर्वा
देवता - विक्रयः
छन्दः - त्र्यवसाना षट्पदा बृहतीगर्भा विराडत्यष्टिः
सूक्तम् - वाणिज्य
इ॒माम॑ग्ने श॒रणिं॑ मीमृषो नो॒ यमध्वा॑न॒मगा॑म दू॒रम्। शु॒नं नो॑ अस्तु प्रप॒णो वि॒क्रय॑श्च प्रतिप॒णः फ॒लिनं॑ मा कृणोतु। इ॒दं ह॒व्यं सं॑विदा॒नौ जु॑षेथां शु॒नं नो॑ अस्तु चरि॒तमुत्थि॑तं च ॥
स्वर सहित पद पाठइ॒माम् । अ॒ग्ने॒ । श॒रणि॑म् । मी॒मृ॒ष॒: । न॒: । यम् । अध्वा॑नम् । अगा॑म । दू॒रम् । शु॒नम् । न॒: । अ॒स्तु॒ । प्र॒ऽप॒ण: । वि॒ऽक्रय । च॒ । प्र॒ति॒ऽप॒ण: । फ॒लिन॑म् । मा॒ । कृ॒णो॒तु॒ । इ॒दम् । ह॒व्यम् । स॒म्ऽवि॒दा॒नौ । जु॒षे॒था॒म् । शु॒नम् । न॒: । अ॒स्तु॒ । च॒रि॒तम् । उत्थि॑तम् । च॒ ॥१५.४॥
स्वर रहित मन्त्र
इमामग्ने शरणिं मीमृषो नो यमध्वानमगाम दूरम्। शुनं नो अस्तु प्रपणो विक्रयश्च प्रतिपणः फलिनं मा कृणोतु। इदं हव्यं संविदानौ जुषेथां शुनं नो अस्तु चरितमुत्थितं च ॥
स्वर रहित पद पाठइमाम् । अग्ने । शरणिम् । मीमृष: । न: । यम् । अध्वानम् । अगाम । दूरम् । शुनम् । न: । अस्तु । प्रऽपण: । विऽक्रय । च । प्रतिऽपण: । फलिनम् । मा । कृणोतु । इदम् । हव्यम् । सम्ऽविदानौ । जुषेथाम् । शुनम् । न: । अस्तु । चरितम् । उत्थितम् । च ॥१५.४॥
अथर्ववेद - काण्ड » 3; सूक्त » 15; मन्त्र » 4
Translation -
O God, pardon this mistake of ours, that we have travelled to a distant place, far from home. Propitious unto us be sale and barter, may interchange of merchandise enrich me. Accept, ye twain accordant, this sale and purchase! Prosperous be our ventures and profits.